472

कालाक्खरेत्यादि । ‘कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे । द्वयोरपि नरकनिवासः समको यदि भवति तदा भवतु ॥’ इह रे कालाक्षरेषु दुःशिक्षित दुरुपदेश बालक षोडशवर्षवयस्क, मम कण्ठे लग । मामालिङ्गयेत्यर्थः । द्व्योरावयोस्तथा सति नरकनिवासः समकस्तुल्यो यदि भवति तदा भवतु । तत्राप्यावयोः समान एवेति नरकोऽपि स्वर्गः । कालाक्षरेति लौकिकी संज्ञा । रे इति नीचसंबोधनम् । ‘बाल आषोडशाद्वर्षात्’ इति मनुः । समक इति स्वार्थे कन् । पोगण्डो व्यवहारानभिज्ञः । पोगण्डस्तु ततःपरम् ।’ ‘परतो व्यवहारज्ञः’ इति मनुः । अधीतेति । अधीतं धर्मशास्त्रं मन्वादिस्मृतिर्येन सः । अभिमतमाकाङ्क्षितं रूपं सौन्दर्यं यस्य सः । तादृशश्चासौ पोगण्डश्चेति कर्मधारयः । रूपक इत्यत्र ‘शेषाद्विभाषा ५।४।१५४’ इति कप् । अविनयवती वेश्या । अत्र निजाभिप्रायसिध्द्या महासाहसे सुरतरूपे नियोगस्य साक्षादनभिधानात्प्रतीयमाने वा प्रस्तुतस्तुतिः । धर्मबाधामाह—परस्येति । दारान् पत्नीम् ॥

अर्थबाधया वाच्या यथा—

‘पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि ।
श्लाध्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर न गिरं यः खलानां श्रृणोषि ॥ ११३ ॥’

अत्र स्तोतव्यानां पङ्ग्वन्धमूकबधिराणां वन्द्यधन्यश्लाघ्यस्तोतव्यपदैः साक्षादभिनन्दनादियं वाच्या नामाप्रस्तुतप्रशंसाभिमानिनोऽर्थसिद्धिं बाधते ॥

पङ्गो इत्यादि । हे पङ्गो खञ्ज, त्वं वन्द्योऽसि; यस्त्वमर्थी सन् परेषां गृहं न यासि । हे अन्ध दृष्टिशून्य, त्वं धन्यः, यद्धनगर्ववतां मुखानि त्वं नेक्षसे न पश्यसि । हे मूक, त्वं श्लाध्योऽसि; यस्त्वं कृपणं जनमर्थाशया न स्तौषि । हे बधिर श्रवणशून्य, त्वं स्तोतव्योऽसि; यस्त्वं खलानां दुर्जनानां गिरं वार्णी न श्रृणोषि । ‘पङ्गुः खञ्ज इति स्मृतः’ इति हारावली । ‘अवाचि मूकः’ इत्यमरः । अत्र पङ्ग्वादीनां वन्द्यादिपदैः साक्षादभिनन्दनादभिधीयमानता । अर्थबाधामाह—अभीति । अनेन मानिनामर्थसिद्धिबाध एवोक्तः ॥