सुहेत्यादि । "सुखपृच्छकं जनं दुर्लभमपि दूरान्ममानयमान । उपकारक ज्वर जीवमपि गृह्णन्न कृतापराधोऽसि ॥" काचिदत्यनुरागिणी नायकमन्यानुरक्तमपि वार्ताकरणायातं दोषगर्भमाह—सुखेति । हे ज्वर, सुखपृच्छकं तवाङ्गे सुखमधुनेति प्रश्नकारकं जनं दुर्लभमपि मम कृते दूरदेशादानयमान प्रापक, अत एवोपकारक, जीवमपि गृह्णन् त्वं न कृतापराधोऽसि । सुखं सुष्ठु पृच्छति सुखपृच्छकः । ‘क्रियासमभिहारे वुन्’ इति योगविभागाद्वुन् । अत्र सुखपृच्छकेत्यादिना स्वाभिप्रायसिध्द्यानुरक्ताया ज्वरं प्रति वाक्यम् । तेनाप्रस्तुतस्तुतिर्जायते न त्वभिधीयत इति । कामबाधामाह—शरीरेति ॥ इत्यप्रस्तुतप्रशंसालंकारनिरूपणम् ।