अत्र योऽयं सेवादिर्मानवानां राजविषये स्त्रीषु च वैषम्यहेतुतुल्यत्वेन योगो राजादीनां वा 172कर्मादितुल्यतया तत्क्रियायां समावेशः सोऽमीषां मिथः सादृश्यं प्रत्याययन् राजसेवापरस्त्रीरत्योर्विषोपभोगतुल्यतां गमयतीति सेयं प्रतीयमानतुल्यगुणत्वे निन्दर्था तुल्ययोगिता ॥

  1. ‘कर्मत्वादिरूपस्य’ इति क ख