478

तत्र दोषस्य गुणीभावो लेशो यथा—

‘युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः ।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ १२३ ॥’

अत्र येयमुत्तरार्धेन राज्ञो वीर्यप्रकर्षस्य स्तुतिः सा कन्याया निरन्तरान्भोगान् निर्विविक्षोर्दोषत्वेन प्रतिभासिष्यत इत्यभिप्रेत्य योऽयं विदग्धसख्या राजप्रकोपपरिजिहीर्षया दोषोऽपि गुणरूपेणोक्तः; सोऽयं दोषस्य गुणीभावो नाम लेशतोऽल्पतया शनैरनन्यविदित उच्यमानो लेश इत्युच्यते ॥

युवेत्यादि । स्वयंवरे कस्मिन्नपि नृपे दर्शितभावां सखीं निवर्तयितुं कापि स्तुतिव्याजात्तं निन्दति । युवत्वगुणित्वनृपत्वबलवत्त्वेभ्य एष तव पतिर्योग्यः । यस्य कामोत्सवादपि विषयोत्सवमनादृत्य रणोत्सवे मनः सक्तमासक्तम् । निर्विविक्षोरुपभोक्तुमिच्छोः कन्यायाः । ‘निर्वेश उपभोगः स्यात्’ इत्यमरः । अत्र विदग्धया सख्या राजकोपशान्तये भोगेच्छुं प्रति वीर्यप्रकर्षरूपस्तवस्य दोषत्वेऽपि गुणत्वेनाल्पतयोपन्यसनाल्लेशोऽयं दोषस्य गुणीभावलक्षणः । अल्पतयैवात्र लेशता ॥

गुणस्य दोषीभावो यथा—

‘चपलो निर्दयश्चासौ जनः किं तेन मे सखि ।
आगः प्रमार्जनायैव चाटवो येन शिक्षिताः ॥ १२४ ॥’

अत्र पूर्वार्घेन मानपरिग्रहानुगुणं सखीनामग्रतः प्रकाशं प्रतिज्ञाय तदनिर्वाहमाशङ्कमाना तदुपहासं परिजिहीर्षुर्दोषाभासं तद्गुणग्राममाह —आगःप्रमार्जनायैव चाटवो येन शिक्षिता इति; सोऽयं गुणस्य दोषीभावो नाम लेशभेदो भवति । अन्ये पुनः समस्तमेव लेशलक्षणमाचक्षते—यत्र दोषस्य गुणीभावो गुणस्य च दोषीभाव इति । सोऽपि द्विधा—समासोक्त्या, असमासोक्त्या च ॥

चपल इति । हे सखि, चपलो निर्भयश्चासौ जनो भवतु तेन मम किम् । किंतु न किमपि । येन जनेनागःप्रमार्जनायापराधप्रोञ्छनाय परं चाटवः प्रियवादाः