480 एव दुःखमयता । प्राकृतोऽविविक्तो जनो धन्योऽस्ति । कीदृशः । अव्युत्पन्ना अविशेषवती मतिर्यस्य सः । न सता साधुना कृतेन कार्येण नैवासता असाधुना कार्येण व्याकुलः । साध्वसाधुकार्यरहित इत्यर्थः । अत एव इदं कृत्यमिदमकृत्यमिति विचारशून्यहृदयश्च । अत्रापि रोषभयादेव लेशतोऽभिधानम् । दोषगुणीभावो गुणदोषीभावश्च व्यस्तोऽत्र कथं न लेश इति पृच्छति—अथेति । अत्तरम् । दोषेति । आद्यस्याप्रस्तुतस्तुत्याम्, अन्त्यस्य व्याजस्तुत्यां विषयीकरणात्तयोरेवान्तर्भाव इत्यर्थः ॥

व्याजस्तुतिरपि द्विधा—शुद्धा मिश्रा च । तयोः शुद्धा यथा—

‘पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते ।
राजन्निक्ष्वाकुवंश्यस्य किमिदं तव युज्यते ॥ १२७ ॥’

अत्र शुद्धपरदारापहरणलक्षणनिन्दाव्याजेन स्तुतेर्विहितत्वादियं शुद्धानाम व्याजस्तुतिर्गुणदोषीभावलक्षणाल्लेशान्न पृथक् ॥

पुंस इत्यादि । पुराणात्पुंसः पुराणपुरुषाद्विष्णोः श्रीः कमला आच्छिद्य गृहीत्वा त्वया परिभुज्यते सेव्यते । हे राजन्, इक्ष्वाकुर्नृपविशेषो वंश्यो यस्य तस्य तवेदं किं युज्यते । किंतु नार्हतीति निन्दाभासः । अथ च पुराणात्पुंसो वृद्धात्पुरुषाच्छ्रीः संपदाच्छिद्य त्वया भुज्यत इति तात्पर्यार्थः । अत्र श्रीपदे व्याजः । स च शुद्ध एव । तेन च शुद्धिरिह ॥ लेशाभेदमाह—गुणेति ।

मिश्रा यथा—

‘प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश वृणते ।
अतश्चैतां कीर्तिं रघुनहुषमान्धातृमहिषीं पराम्रष्टुं वृद्धामधिगतनयो नार्हति भवान् ॥ १२८ ॥’

अत्र स्तुतिपदमिश्रैव व्याजगर्हया स्तुतिरितीयं मिश्रानाम व्याजस्तुतिर्लेशभेदः ॥

प्रिय इत्यादि । हे राजन्, प्रियः प्रीतोऽसि । प्राज्ञ उत्कृष्टमतिरसि । ईश्वरोऽसि । शुद्धवंशोऽसि । तरुणोऽसि । एवं सति कियत्यस्तरुण्यस्त्वां पतिं न वृणते न स्वीकुर्वन्ति । अतो हेतोरेतां कीर्ति पराम्रष्टुमाक्रमितुं भवान्नार्हति । कीदृशीम् । रघुनहुषमान्धातॄणां नृपविशेषाणां महिषीं महादेवीमत एव वृद्धामतिवयस्कां च ।