482

अत्र संबोध्यमानयुष्मदर्थः कर्मतामापन्न उह्यस इति क्रियायां केवल एव क्रियापदार्थेन सह समाविष्टः; सेयं विविक्तकर्मक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः ॥

उज्झसीत्यादि । "उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति । उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि ॥" अपराधवता केनचिदबला दुर्बला किमिति त्वं कृशेति पृष्टा । तमुद्दिश्याह—उह्यस इति । प्रियया समदं सगर्वं यथा स्यादेवं त्वमुह्यसे भ्रियसे । तथापि रे त्वं वदसि किमिति कृशासि त्वमिति । हे अज्ञ ज्ञानहीन, उपरिभरेण गोण्यादिगौरवेण वृषभोऽप्यङ्गानि मुञ्चति त्यजति । किं पुनरवलेति भावः । उह्यस इति ‘वह प्रापणे’ कर्मणि लकारः । वइल्लो वृषभः । रेशब्दः साक्षेपसंबोधने । अत्र वहनक्रियायां त्वमिति बोध्योऽर्थः कर्मीभूतः केवल एव प्रियापदार्थेन सह समाश्लिष्टस्तयोश्च विसदृशता व्यक्तैव ॥

विविक्ताया एव लक्षणान्तरमाह—

यत्रानेकोऽपि कर्त्रादिः प्रविविक्तैः क्रियादिभिः ।
विविक्तभावं लभते विविक्ता सापि कथ्यते ॥ ५९ ॥

यत्रेति । यत्रानेकः कर्त्रादिर्भिन्नै क्रियादिभिर्भेदं लभते सा विविक्तेति कथ्यते ॥

सा कर्तृद्व्यस्य पृथक् क्रियासमावेशे यथा—

‘वर्घते सह पान्थानां मूर्च्छया चूतमञ्जरी ।
वहन्ति च समं तेषामश्रुमिर्मलयानिलाः ॥ १३१ ॥’

अत्र चूतमञ्जरी मूर्च्छया सह वर्घनक्रियायाम्, मलयानिलाश्चाश्रुभिः सह वहनक्रियायां पृथक् पृथग्विवेकेनैव कर्तारः समाविष्टाः, सेयमपि विविक्तकर्तृक्रियासमावेशैव वैसादृश्यवती सहोक्तिः । एवं कर्मणोऽपि विवेके द्रष्टव्या ।

वर्धत इत्यादि । चूतमञ्जरी पान्थानां मूर्च्छया सह वर्धते, मलयानिलास्तेषां पान्थानामश्रुभिः सह वहन्ति वान्ति भ्रश्यन्ति च । ‘पथिकः पान्थ इत्यपि’ इत्यमरः । अत्र चूतमञ्जर्यादेस्तत्क्रियायां विवेकेनैव कर्तृत्वेन समावेशः । विसदृशता तु व्यक्तैव ॥