483

कर्तॄणामविविक्तक्रियासमावेशे यथा—

‘धीरेण 173समं जामा हिअएण समं अणिट्ठिआ उवएसा ।
उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा ॥ १३२’
[धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः ।
उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्या उल्लापाः ॥]

अत्र यामादीनां बहूनां धैर्यादिभिः सह गलनक्रियायामेकस्यामेवाविविक्तः समावेशो दृश्यते; सेयमविविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः ॥

धीरेणेत्यादि । "धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः । उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्या उल्लापाः ॥" अस्य रामस्य धैर्येण समं यामा रात्रिप्रहरा गलन्ति । हृदयेन सममनिष्ठिता अनिर्व्यूढा अनिश्चिता वा उपदेशा गलन्ति । उत्साहेन सह भुजा बाहवो गलन्ति । बाष्पेण सममुल्लापा आलापा वचनानि गलन्ति । धैर्यविगमानुचिते सदुपदेशावस्थितिः । ततो मनःशून्यता, तत उत्साहत्यागः, ततो भुजस्खलनम्, ततोऽश्रुणा सह वचनतेति क्रमेणाधिकार्तितो मन्मथदशाधिक्यमुक्तम् । उत्साहोऽध्यवसायः । अत्र गलनक्रियाया एकत्वेनाविविक्तता । वैसादृश्यं च व्यक्तमेव ॥

कर्मणामविविक्तक्रियासमावेशे इवशब्देन सहशब्दस्य स्थाने ससादृश्या यथा—

‘धीरं व जलसमूहं तिमिणिवहं विअ सपक्खपव्वअलोअम् ।
णइसोत्तेव तरङ्गे रअणाइँ व गरुअगुणसआइँ वहन्तम् ॥ १३३ ॥’
[धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम् ।
नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम् ॥]

अत्र धैर्येण सह जलसमूहस्य, तिमिनिवहेन सपक्षपर्वतलोकस्य, नदीस्रोतोभिस्तरङ्गाणाम्, रत्नैश्च गुरुकगुणशतानां मिथः प्रतीयमानं सादृश्यमिवेन द्योत्यते । सहार्थश्च वाक्यार्थसामर्थ्येन लभ्यत इति सेयं

  1. ‘णिसाआमा’ इति सेतुबन्धे पाठः