492 एकविषयेऽन्वयः, अत्रत्वन्वये कालभेदो विषयभेदश्चेति भेदादित्यर्थः । उक्तवैधर्म्ययोः समुच्चये सत्त्वमाशङ्क्य परिहरति—किंत्विति । समुच्चये उभयधर्मवत्त्वेऽपि समुच्चयत्वेनैव विषयपरिहारः, इह तु विवक्षयैव विनिगमनेत्याशयः ॥

समासेऽपीतरेतरयोगादनुभयाश्रयः समुच्चयभेदो यथा—

‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १४५ ॥’

अत्र ‘वागर्थाविव’ इति परवल्लिङ्गता ‘संपृक्तौ पितरौ’ इत्यत्र योऽयं ‘पुमान् स्त्रिया १।२।६७’, ‘पिता मात्रा १।२।७०’ इति चैकशेषस्तेनैष विशेषलक्षणयोगाद्वक्रोक्तित्वे सत्यलंकारता लभत इति; न धवखदिरादिष्वतिप्रसङ्ग इत्ययमपि समुच्चयभेदः ॥

वागर्थावित्यादि । अहं गौरीहरौ वन्दे नमामि । किमर्थम् । वाक् चार्थश्च तयोः प्रतिपत्तये निश्चयाय । कीदृशौ । वागर्थाविव शब्दतदभिधेयाविव संपृक्तौ संबद्धौ । यथा शब्दस्तद्वाच्योऽर्थश्च द्वौ नित्यसंबद्धौ वाच्यवाचकत्वसंबन्धेन तथा यौ नित्यसंबद्धावित्यर्थः । जगतो लोकस्य पितरौ मातृजनकौ । पिता च माता चेति द्वन्द्वे ‘पिता मात्रा १।२।७०’ इत्येकशेषे पितराविति । पार्वत्या मातृत्वेन मातुश्चातिगौरवेणाभ्यार्हितत्वात्पूर्वनिपातः । ‘सहस्रेण पितुर्माता गौरवेणातिरिच्यते ।’ इति स्मृतिः । अनेनार्धनारीश्वर उक्तः । यद्वा पार्वतीं पातीति पार्वतीपो हरः, रमाया लक्ष्म्या ईश्वरो हरिस्तौ वन्दे । यद्वा पार्वतीपरो हरो माया लक्ष्म्या ईश्वरो हरिस्तौ हरहरी वन्दे । कीदृशौ । लोकस्य पितरौ जनकौ । अन्यत्तुल्यमेव । एतेन हरिहररूपमुक्तमिति कुव्याख्या । ‘रमा लक्ष्म्यामपीष्यते’ इति विश्वः । ‘मा च लक्ष्मीर्निगद्यते’ इत्येकाक्षरः । परवल्लिङ्गता अर्थशब्दलिङ्गता । संपृक्ता च संपृक्तश्चेत्यत्र ‘पुमान् स्त्रिया १।२।६७’ इत्येकशेषः । अतएवोक्तेर्वक्रतयेहालंकारता । न च धवखदिरावित्यादिषु वक्रोक्तिरतो नालंकारता ॥

समाहारयोगादपि यथा—

‘स्त्रीणां हावैः कृते यत्र निजकार्ये मनोभुवा ।
अक्षिभ्रुवनिभं न्यस्तं तन्मुखे शरकार्मुकम् ॥ १४६ ॥’