501

अर्थान्तरन्यासालंकारः ।

अर्थान्तरन्यासं लक्षयति—

ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ ६७ ॥
स उपन्यस्तवस्तूनां साधर्म्येण च कथ्यते ।
वैधर्म्येण च विद्वद्भिर्वैपरीत्येन कुत्रचित् ॥ ६८ ॥

ज्ञेयमिति । किंचन किमपि वस्तु वाच्यं प्रस्तुत्य प्रक्रम्य तद्वस्तुसाधनसमर्थस्यान्यस्य वस्तुनो वाक्यार्थन्यास उपन्यासो यः सोऽर्थान्तरन्यासः । वैपरीत्यं विपर्ययः ॥

तेषु साधर्म्येण यथा—

‘पयोमुचः परीतापं हरन्त्येते शरीरिणाम् ।
नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ १५९ ॥’

अत्र परीतापापहरणक्षमस्य जलदाख्यस्य महावस्तुनो न्यसनं विधाय तत्साधनसाधर्म्येणैव तत्साधनक्षमं महापुरुषलक्षणं वस्त्वन्तरमुपन्यस्यति, सोऽयं साधर्म्येणार्थान्तरन्यासः ॥

पयोमुच इत्यादि । एते मेघाः शरीरिणां परितापं हरन्ति । ननु निश्चये । महतामात्मलाभोऽवस्थितिः परदुःखोपशान्त्यर्थं भवति । अत्र पूर्वार्धोपस्थापितार्थसिद्धये साधर्म्यपुरस्कारेणोत्तरार्धोपन्यासः स्फुट एव ॥

वैधर्म्येण यथा—

‘प्रियेण संग्रथ्य विपक्षसंनिधा- वुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ १६० ॥

अत्रापि प्रियतमेन स्वयं कान्ताहृदये समारोपितायाः स्रजः प्रेम-