502 कारणमुपन्यस्य जलाविलदोषवत्या अपि स्रजो यदत्यागकारणं तदिह वैधर्म्यद्वारेण प्रतिपादितमतो वैधर्म्येणायमर्थान्तरन्यासः ॥

प्रियेणेत्पादि । काचिन्नारी जलाविलामपि स्रजं मालां न विजहौ न तत्याज । कीदृशीम् । प्रियेण संग्रथ्य ग्रथित्वा मांसलकुचवति हृदये विपक्षस्व सपत्न्याः समीपे उपाहितामारोपिताम् । अत्रोपपत्तिमाह—हि यतः प्रेम्णि प्रीतौ गुणा वसन्ति न वस्तुनि गुणा वसन्ति । अत्र जलाविलमालाया अप्यत्यागहेतुर्वसन्तीत्यादिना वैधर्म्यपुरस्कारेणोक्तः ॥

विपर्ययेण यथा—

‘जो जस्स हिअअदइओ दुक्खं देन्तो वि सो सुहं देइ ।
दइअणहदूमिआणं वि वड्ढीइ त्थणआणं रोमञ्चो ॥ १६१ ॥’
[यो यस्य हृदयदयितो दुःखं दददपि स सुखं ददाति ।
दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः ॥]

अत्र साधनसमर्थं वस्तु प्रथमत एवोपन्यस्य पश्चात् तत्साध्यमभिहितमिति विपर्यासादयं विपर्ययो नामार्थान्तरन्यासः ॥

जो इत्यादि । “यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्य । दयितनखदुःखितयोरपि वर्धते स्तनयो रोमाञ्चः ॥” इह यो यस्य हृदयप्रियः स दुःखं दददपि तस्य तथा प्रिय एव । अत्र हेतुः—दयितनखेन दुःखितयोरपि स्तनयो रोमाञ्चो वर्धते । दददित्यत्र ‘नाभ्यस्ताच्छतुः ७।१।७८’ इति निषेधः । अत्र प्रथमं हेतुरुक्तस्ततस्तत्कार्यमुक्तमिति विपरीतता ॥

उभयन्यासस्यार्थान्तरन्यासादभेदमाह—

प्रोक्तो यस्तूभयन्यासोऽर्थान्तरन्यास एव सः ।
स प्रत्यनीकन्यासश्च प्रतीकन्यास एव च ॥ ६९ ॥

प्रोक्त इति । प्रत्यनीकः परिपन्थी, प्रतीकोऽवयव एकदेश इति यावत् । 'अङ्गं प्रतीकोऽवयवः’ इत्यमरः ॥