देवीत्यादि । देवी गौरी पुत्रमसूत सूते स्म । ततो हे गणाः, नृत्यत नृत्यं कुरुक किमुपविष्टा भवथ इति कृत्वा उद्भुजे उत्तोलितबाहौ भृङ्गिरिटौ भृङ्गिनामके गणे चामुण्डया आलिङ्गिते सति तयोर्भृङ्गिरिटिचामुण्डयो रवः शब्दो वो युष्मान् पायाद्रक्षतु । चामुण्डया कीदृश्या । हर्षादुदाहृतोक्ता गीर्भृङ्गिरिटिवाणी यया तया । रवः कीदृशः ॥ परस्पराङ्गसंबन्धेन जर्जरं स्फुटितं यज्जीर्णं स्थूलास्थि तस्माज्जन्म उत्पत्तिर्यस्य सः । जिता देवदुन्दुभेर्देवभेर्या निबिडध्वानस्य प्रवृत्तिर्येन सः । ‘भेर्यामानकदुन्दुभी’ इत्यमरः । अत्र शब्दविशेषस्य वस्तुत्वेन गृहीतस्य विशेषणैः परिष्कारः ॥