513

अत्र ‘उष्ट्रासिका आस्यन्ते’, ‘हतशायिकाः शय्यन्ते’ इत्यमूभ्यां सामान्यविशेषोपचरितरूपो भावात्मा ण्वुलैव प्रत्याय्यते । स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशेषरूपेण । बहुवचनं चेह कुत्सातिशयार्थम् । याहि नामोष्ट्रस्य कुत्सावत्यो बहुप्रकारवत्यो वक्षःसु आसिकाः, याश्च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीतास्ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसंबन्धजनितभेदाभेदपरिग्रहाल्लकारेणापि बहुत्वेनैव प्रत्याय्यते । तेनोष्ट्रासिका इवासनानि, हतशायिका इव शयनानि क्रियन्ते भवन्तीति वाक्यार्थो भवति, सोऽयं यथोक्तः क्रियापरिकरः ॥

शय्यन्त इत्यादि । पथि वृक्षच्छायोपविष्टपान्थैर्हतशायिका निन्दितशयनानीव शय्यन्ते शयनानि क्रियन्ते । श्रीकण्ठगृहेषु धार्मिकजनैस्तपखिभिरुष्ट्रासिका इवोष्ट्रोपवेशनानीवास्यन्ते स्थीयन्ते । यथोष्ट्रो यत्र कुत्रचिदुपविशति तथा तपस्विभिरप्युपविश्यत इत्यर्थः । हे सखि, तत्र निकुञ्जशाखिनि निकुञ्जवृक्षे शून्ये विजने ग्रीष्मस्य मध्याह्ने सज्जानां सुसज्जानामभिसारिकाणां प्रियस्याभिसारणव्यापारे रम्यः क्षणो वर्तते । शय्यन्त इति ‘शीङ् स्वप्ने’ भावे यक् । शायिका इति ‘धात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ इति शीङ्धातोः ण्वुल् । तथा च शायिकाः शयनानीत्यर्थः । श्रीकण्ठः शिवः । ‘श्रीकण्ठः शितिकण्ठः कपालभृत्’ इत्यभरः । आसिका इति । ‘आस उपवेशने’ धात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ इति ण्वुल् । तेन आसिका आसनानीत्यर्थः । ‘सज्जः स्यात् संनद्धे संभृते त्रिषु’ इति मेदिनीकारः । अत्र शयितापेक्षयोविष्टस्याभिसरणे वारणीयत्वख्यापनार्थं विवरणे वैपरीत्यमाह—अत्रेति । अमूभ्यां वाक्याभ्याम् । सामान्यविशेषाभ्यां शुय्यन्ते आस्यन्ते इति सामान्यम्, हतशायिका उष्ट्रासिकेति विशेषस्ताभ्यामुपरचितमुपस्थापितं रूपं स्वरूपं यस्य सः । भावात्मा भावरूपो धर्म इति यावत् । प्रत्याय्यते बोध्यते । आख्याताभ्यामास्यन्ते शय्यन्त इत्यत्र । सामान्यरूपेण सामान्याकारेण । ण्वुलेति । उष्ट्रासिकाहतशायिकापदाभ्यामित्यर्थः । विशेषेति । विशेष्यो तयोः कथनादित्यर्थः । तर्हि भावस्यैकत्वादेकवचनं स्यात्तत्कथं बहुवचनं शय्यन्ते आस्यन्ते इति स्यादत आह—बहुवचनमिति । विशेषक्रियागतबहुत्वस्यैव सामान्यक्रियाया विवक्षितत्वाद्बहुवचवमित्यर्थः । विवक्षामूलं