धर्मस्येत्यादि । हे भगीरथि भगीरथावतारिते हे गङ्गे, त्वामहं प्रार्थये धर्मस्योत्सवे वैजयन्ति पताकारूपे, हे भवानीपतेर्मुकुटमालारूपा वेणी प्रवाहो यस्यास्तादृशे, हे रत्नाकरस्य समुद्रस्य पत्नि जाये, हे जह्नुमुनिकन्यके । प्रार्थनाविषयमाह—मम प्राणाः प्रयास्यन्ति गमिष्यन्ति । कीदृशस्य । त्वत्तोयस्यान्ते समीपे शिलानिषण्णाङ्गस्य त्वद्वीचिभिः त्वत्तरङ्गैः प्रेङ्खतश्चलतस्त्वदीयं नाम स्मरतस्त्वदर्पितदृशस्त्वयि दत्तनेत्रस्य च । ‘वैजयन्ती पताकायाम्’ इति मेदिनीकारः । ‘अन्तः शेषेऽन्तिके स्त्रियाम्’ इति च । अत्र स्फुटक्रियाविशेषणत्वं नास्तीत्यत आह—तत्रेति । विशिष्टायाः प्रार्थनकर्मतया विशेषणस्याप्यन्वय इति यथाकथंचिदित्यस्यार्थः ॥