519

अत्र ‘अनेन’ इति सहार्थः ‘यूना, पार्थिवेन’ इति च पदाभ्यां परिष्क्रियते; सोऽयं सहार्थपरिकरः ॥

अनेनेत्यादि । हे रम्भोरु, अनेन तरुणेन भूपेन सह तव मनसो रुचिरभिलाषः कच्चित्कथयेत्यर्थः । किमर्थम् । वनपङ्क्तिषु विहर्तुं क्रीडां कर्तुम् । कीदृशीषु । सिप्रा नदीभेदस्तत्तरङ्गसंगिवायुना कल्पितासु । ‘कच्चित्कामप्रवेदने' इत्यमरः । अत्रानेनेति ‘सहयुक्तेऽप्रधाने २।३।१९’ इति तृतीया । तत्प्रतिपाद्यः सहार्थोऽत्र विशेषणाभ्यां परिष्क्रियते ॥

तादर्थ्यपरिकरो यथा—

‘इन्दीवरश्यामतनुर्नृपोऽयं193 त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु १८७’

अत्र ‘अन्योन्यशोभापरिवृद्धये’ इति तादर्थ्यार्थः शेषपदार्थैः परिष्क्रियते; सोऽयं तादर्थ्यपरिकरः ॥

इन्दीवरेत्यादि । वां युवयोर्योगः संबन्धः परस्परशोभासंपत्त्यै भवतु । विद्युन्मेघयोरिव, यथा तयोर्योगः परस्परशोभायै तथेत्यर्थः । अयं नृपो नीलनलिनश्यामाङ्गः, त्वं च गोरोचनावत् गौराङ्गयष्टिः । अत्र परिवृद्धये इति तादर्थ्ये चतुर्थीति तादर्थ्यार्थपरिष्कारः ॥

उपपदपरिकरो यथा—

‘प्रत्यक्षवस्तुविषयाय जगद्धिताय विश्वस्थितिप्रलयसंभवकारणाय ।
सर्वात्मने विजितकोपमनोभवाय194 तुभ्यं नमस्त्रिभुवनप्रभवे शिवाय ॥ १८८ ॥’

अत्र ‘नमस्तुभ्यम्’ इत्युपपदार्थः समस्तपदैः परिष्क्रियते; सोऽयमुपपदपरिकरः ॥

  1. मुद्रितरघुवंशपुस्तकेषु ‘नृपोऽसौ’ इति पाठः
  2. ‘काममनोभवाय’ ध