526

श्यामला इत्यादि । प्रावृषेण्याभिर्वर्षजाताभिर्जीमूतपङ्किभिर्मेघसंधैर्दिशः श्यामलाः श्यामाः । रम्याभिर्नूतनतृणपङ्किभिर्भुवश्च श्यामलाः सन्ति । ‘कालश्यामलमेचकाः’ इत्यमरः । अत्र जाते इत्यर्थे ‘प्रावृष एण्यः ४।३।१७’ इत्येण्यप्रत्ययः । ‘घनजीमूतमुदिर’ इत्यमरः । ‘शाद्वलः शादहरिते’ इति च । ‘शादः स्यात्कर्दमे शस्ये’ इति मेदिनीकारः । अत्र श्यामलपदेन गुणवाचिनानादिस्थेन दीपनम् । मध्यान्तस्थयोरपि गुणवाचिनोरेवं ज्ञेयमित्याह—एवमिति ॥

द्रव्यवाचिना आदिदीपकं यथा—

‘विष्णुना विक्रमस्थेन दानवानां विभूतयः ।
क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥ १९८ ॥’

अत्र ‘विष्णुना’ इत्यादिपादे द्रव्यपदं तेनादिदीपकमिदं द्रव्यविषयमुच्यते । एवं मध्यान्तयोरपि द्रष्टव्यम् ॥

विष्णुनेत्यादि । दानवानां दनोरपत्यानामसुराणां विभूतयः संपत्तयो विक्रान्तेन विष्णुना क्वापि नीताः प्रापिताः । तेनैव देवतानाभृद्धयः श्रियः कुतोऽप्यवधिभूतादानीता आसन् स्थिताः । ‘संशता199 (?) वुपचये ऋद्धिः’ इति नानार्थः । अत्र विष्णुशब्दो द्रव्यपर आदिस्थश्च । मध्यान्तस्थयोरपि द्रव्यवाचिनोरेवं द्रष्टव्यमित्याह—एवमिति ॥

अर्थावृत्तिर्यथा—

‘हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति ।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते200 कामी ॥ १९९ ॥’

अत्र ‘हृष्यति, तुष्यति, मोदते, प्रीयते’ इत्येतैः पदैः स एवार्थ आवर्त्यमानः सर्ववाक्यानि दीपयति; सेयमर्थावृत्तिर्दीपकस्य भेदः ॥

हृष्यतीति । कामी इह मधौ वसन्ते चूतेषु हृष्यति हृष्टो भवति । बकुलेषु तुष्यति । मरुति वाते भोदते । कलरवेषु कोकिलेषु च प्रीयते प्रीतो भवति । सर्वत्र चिरमित्यन्वयः । हिरवधारणे । प्रीयत इति ‘प्रीङ् प्रीतौ’ दैवादिकः । अत्र हृष्यतीत्यादिपदैरावर्तमानोऽर्थः सर्ववाक्यदीपकः ॥

  1. ‘प्रीयते’ ग घ नास्ति
  2. ‘संपत्तावुपचये ऋद्धिः’ इति भवेत्