अत्र वसन्तलक्ष्मीपरिष्कृतलतानां ललनानां च प्रतीयमानसादृश्यानामुपमानोपमेयभावविवक्षायां येयमलिवलयादिभिरलकादीनां प्रतीयमानसादृश्यानामेव पृथक्पृथगिवशब्दप्रयोगवतीति विस्तरेणावयविनोऽवयवानां चेति सामस्त्येन वाक्यार्थयोरौपम्योक्तिभङ्गिः । सेयं समस्तोपमानाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥
अलीत्यादि । लता वसन्ते ललना इव स्त्रिय इवाधिकं शोभन्ते । कैः । अलकैरिव भृङ्गवृन्दैः, पुष्पगुच्छैः कुचैरिव, पल्लवैः पाणिभिरिव । इहावयविनोर्लतास्त्रीरूपयोरवयवानामेकदेशानामलिवलयालकादीनां सामग्र्येणोपमानोपमेयभावात् समस्तोपमेयम् । तेषां च प्रकृतत्वं प्रसिद्धमेव ॥
एकदेशोपमा यथा—
अत्र नलिनीनां विलासिनीनां च परस्परमुपमानोपमेयभावे वक्तव्ये विलासिनीलक्षणमुपमानार्थम्, एवमवयवान्तराणि च यानि स्तनाद्युपमेयानि, तानि परित्यज्य कमलमेवैकं तदवयवैर्दलादिभिः सहाधरादिभिरुपमानैः पृथक्पृथगिवप्रयोगाद्विस्तरेणोपमितम् । तेनेयमेकदेशोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥
कमलेति पद्मिन्यः शोभन्ते । कैः । अधरैरिव पद्मपत्त्रैः, दन्तैरिव किंजल्कैः, अलकैरिव भृङ्गसंघैः, मुखैरिव पद्मैः । इह विस्तरोपमया प्रपञ्चोपमा, हंसस्तनादित्यागात्कमलदलादिना सहाधरादेरेकदेशस्योपमया चैकदेशोपमेयम् ॥
मालोपमा यथा—