418
दाता सप्तसमुद्रसीमरशनादामाङ्कितायाः क्षितेः सर्वाकारमहो स्वयंवरसुहृत्को वा न कर्णो मम ॥ ३१ ॥’

अत्र स्वाम्यादीनां मालोपमादिक्रमेण निरूपितत्वान्मालारूपकं नाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥

स्वामीत्यादि । को वा न, अपि तु सर्व एव । तदेवाह—दुर्नयस्य वारणे निवारणे व्यतिकर आसङ्गस्तत्र स्वामी प्रभुः । दुर्नयनिवारक इत्यर्थः । शौर्यस्योपदेशे गुरुरुपदेष्टा । विस्रम्भे हृदयं विश्वासपात्रम् । नियोग आज्ञा तत्काले दासः । भये आश्रयश्च । सप्तसमुद्रसीमान एव रशनादाम तच्चिह्निताया भूमेर्दाता । अहो आश्चर्यं सर्वाकारं यथा स्यादेवं स्वयंवरसुहृत् सहजमित्रं च, निरुपधित्वं स्वयंवरशब्दार्थः । हृदयमित्यजहल्लिङ्गतयान्वयः । ‘आज्ञा नियोग आदेशः’ इत्यमरः । इह विस्तरेण रूपितत्वान्मालारूपकम् ॥

रूपकरूपकं यथा—

‘मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी तव ।
लीलानाट्यामृतं दृष्टौ सखि यूनां निषिञ्चति ॥ ३२ ॥’

अत्र मुखमेव पङ्कजं तदेव रङ्गः, भ्रूरेव लता सैव नर्तकी, लीलैव नाट्यं तदेवामृतमिति रूपितानामपि रूपणेन समासेन रूपकरूपकं नामायं विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः । तदेतच्चतुष्टयमपि परम्परादिभिर्विकृतसमासादिशब्दैर्निबद्धमिति विकृतमुच्यते ॥

मुखेत्यादि । हे सखि, तव भ्रूलतास्मिन्मुखपद्मरङ्गे नर्तकी यूनां दृष्टौ नेत्रे लीलानाट्यामृतं निषिञ्चति । लीलाविलास एव नाट्यं नृत्यं तदेवामृतम् । इह मुखं पङ्कजेन रूपयित्वा रङ्गत्वेन रूपितम्, एवं भ्रुवौ लतात्वेन रूपयित्वा नर्तकीत्वेन रूपिते । लीलैव नाट्यं तदेवामृतमिति रूपितरूपणाद्रूपकरूपकम् ॥

अर्थभूयिष्ठरूपकेऽङ्गिप्रधानं विभजते—

समस्तं चासमस्तं च युक्तं चायुक्तमेव च ।
चतुर्धाङ्गि प्रधानं स्यादर्थभूयिष्ठरूपकम् ॥ २९ ॥