स्मितेत्यादि । हे सुभ्रु, तवेदं मुखं कस्य न नन्दनं हर्षजनकमपि तु सर्वस्यैव । नः शिरश्चालने । कीदृशम् । स्मितमेव पुष्पं तेनोज्ज्वलं दीप्तिमत् । लोलनेत्रे एव भृङ्गौ यत्र तत् । सुरभिः श्वासानिलो यत्र तत् । युक्तिर्योगः उपपत्तिश्चोभयमपि विवक्षितमिह । तथा हि पुष्पभ्रमरयोर्युक्तिर्योगः पुष्पैः सह भ्रमराणां मकरन्दपानकृतः संबन्धः । अत एवोपपद्यते पुष्पभ्रमरयोरेकत्रावस्थानम्, न हि पुष्पाणि भ्रमरैर्विना शोभन्त इति युक्तरूपकतेत्याशयवानाह—परस्परमिति । नन्दनमिव नन्दनमिति शब्दप्राधान्येऽपि नन्दयतीति नन्दनमिति कृदभिहितो भावो द्रव्यवत्प्रकाशत इति वचनादन्यप्राधान्यमेव विवक्षितमिति शङ्कोत्तराभ्याम् ॥