समासादिति । समासोपमा इवार्थेत्यदिना चतुर्विधा ॥
तास्वन्तर्भूतेवार्था यथा—
अत्र इन्दुरिव सुन्दरमिन्दुसुन्दरमितीवार्थः ‘उपमानानि सामान्यवचनैः २।१।५५।’ इति समासेनैक्तः । एवं बिसकिसलये इव कोमले शैलशिलेव विशालेति । सेयमन्तर्गतेवार्था नाम समासोपमासु पदोपमाभक्तिः ॥
मुखमित्यादि । हे सुन्दरि, एव मुखं चन्द्रवत्सुन्दरम्, तव भुजालतिके बिसकिसलयकोमले मृणालपल्लववत्कोमले, तव जघनस्थली शैलपाषाणवद्दीर्घा चेति पूर्वापेक्षया, वाक्यसमाप्तौ वा । इवार्थस्तुल्यता । भक्तिर्विभागः । ‘भक्तिर्विभागे सेवायाम्’ इति मेदिनीकारः ॥
अन्तर्भूतसामान्या यथा—
अत्र चन्द्रेण सदृशं चन्द्रसदृशं मुखम्, अमृतेन सदृक्षोऽमृतसदृक्षो मुखरस इति समासे सुन्दरमधुरादिसामान्यशब्दप्रयोगो न श्रूयते प्रतीयते च, सदृशादेर्द्योतकादिति सामान्यधर्मस्य सौन्दर्यमाधुर्यादेरुपमान-