427

तेषु सावयवसंकीर्णं यथा—

‘रइअरकेसरणिवहं सोहइ धवलब्भदलसहस्सपरिगअम् ।
महुमहदंसणजोग्गं पिआमहुप्पत्तिपङ्कअं व णहअलम् ॥ ४५ ॥’
[रविकरकेसरनिवहं शोभते धवलाभ्रदलसहस्रपरिगतम् ।
मधुमथदंशनयोग्यं पितामहोत्पत्तिपङ्कजमिव नभस्तलम् ॥]

अत्र पितामहोत्पत्तिपङ्कजमिव नभस्तलं शोभत इत्युपमानोपमेयभावेनावयवावयविनोरभेदस्याविवक्षायामुपमैव न रूपकम् । रविकरधवलाभ्रदलसहस्रयोः केसरनिकरदलसहस्रयोश्च प्रतीयमानाभिधीयमानसादृश्ययोश्च सहजाहार्यावयवभूतयोरभेदोपचारेण रूपणमिति सावयवरूपेणोपमायाः संकीर्णत्वादिदं सावयवसंकीर्णं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥

अथेति । आह्वयो नाम । सर्वमेकीकृत्य गणयति—सैषेति । चतुर्विंशतिरित्यर्थः ॥ रइअरेत्यादि । इह नभस्तलं शोभते पितामहस्य ब्रह्मण उत्पत्तिपद्ममिव तस्य पद्मयोनित्वात् । कीदृशम् । रविकराः सूर्यकिरणा एव केसरनिकरा यत्र तत् । धवलाभ्राणि श्वेतमेघा एव दलसहस्राणि तैः परिगतमन्वितम् । मधुमथस्य विष्णोर्दर्शनयोग्यम्, शरदि तस्य जागरणादस्य च रम्यत्वात्, पद्मपक्षेऽपि नाभिकमलतया मधुरिपुदर्शनयोग्यता । यद्वा मधुमथस्य भृङ्गस्य दंशनं कवलनं तद्योग्यम् । मधु मथ्नातीति मधुमथः मूलविभुजादित्वात्कः । ‘मधुमथो हरिभृङ्गयोः’ इति शाश्वतः । अत्र रविकरधवलाभ्रसहस्रयोः सहजाहार्यावयवयोः केसरनिवहत्वेन दलसहस्रत्वेन च रूपणात् पङ्कजनभस्तलयोरवयविनोरुपमानोपमेयत्वाच्च सावयवसंकीर्णरूपकमिदम् ॥

निरवयवसंकीर्णं यथा—

‘दीहो दिअहभुअंगो रइबिम्बफणामणिप्पहं विअसन्तो ।
अवरसमुद्दमुवगओ मुञ्चन्तो कंचुअंव घम्मअणिवहम् ॥ ४६ ॥’
[दीर्घो दिवसभुजङ्गो रविबिम्बफणामणिप्रभां विकसमानः ।
अपरसमुद्रमुपगतो मुञ्चन्कञ्चुकमिव घर्मनिवहम् ॥]

अत्र दिवसावयविनो भुजङ्गावयविनश्चाभिधीयमानप्रतीयमानदैर्ध्य-