433

अव्वोच्छिण्णेति । इह सुभटानामुत्साहो विषमे दुष्करो स्खलितः सत्रधिकं यथा स्योदेवमुद्धावति प्रकाशते । कीदृशः । अव्यवच्छित्रो निरन्तरः सन् प्रसृतः, स्फुरिता शूरस्य सुभटस्य शौर्यस्य वा छाया ख्यातिः कान्तिर्वा यत्र सः । यथा महानदीनां स्रोतः प्रवाहो विषमे देशे स्खलितः सन्नधिकमुद्धावति उद्गच्छति सोऽपि निरन्तरं प्रसृतः स्फुरिता सूरस्य छाया कान्तिः प्रतिबिम्बो वा यत्र सः । ‘प्रतिबिम्बे च कान्तौ च ख्यातौ छायार्कयोषिति ।’ इति मेदिनीकारः । ('कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।’ इति भरतः।) अत्र तादृशनदीस्रोतसो विशेषरूपता ॥

द्रव्यजातिनिमित्तसाम्या सामान्यतः पूर्वा दृष्टन्तोक्तिर्यथा—

‘विसवेओ व्व पसरिओ जं जं अहिलेइ वहलधूमुप्पीहो ।
सामलइज्जइ तं तं रुहिरं व महोअहिस्स विद्दुमवेण्टम् (ढम्) ५३ ॥’
[विषवेण इव प्रसृतो यं यमगभिलेढि(लीयते) बहलधूमोत्पीडः ।
श्यामलयति(लायते) तं तं (तत्तदू)रुधिरमिव महोदधेर्विद्रुमवेष्टम् (पीठम्) ॥]

अत्र धूमविषयोर्विद्रुमरुधिरयोश्च द्रव्यजातियोगकृतं प्रतीयमानं श्यामलायत इति धूमविषद्रव्ययोगजनितमभिधीयमानं सामान्यरूपं च साम्यम् । सेयं दृष्टान्तस्य पूर्वमेवोपन्यासाद्द्रव्यचातियोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः ॥

विसेति । इह बहलधूमोत्पीडो महाधूमसमूहो विषवेग इव प्रसृतो यद्यद्विद्रुमपीठमभिलीयतेऽभिलाति गृह्णाति वा तत्तन्महोदधेर्विद्रुमपीठं श्यामलायते कज्जलीभवति । कीदृशम् । रुधिरमिव, इयं पूर्वदिशा । अभिलीयत इति अभिपूर्वात् लीङ् आश्लेषे दैवादिकः... । ‘स्यादुत्पीडः समूहेऽपि’ इति रत्नकोषः । अत्र जातेर्द्रव्यस्य सामान्यत एव साम्यमिति सामान्यरूपता दृष्टान्तस्य पूर्वामुपन्यासात्पूर्वता च ॥

सैव द्रव्ययोगनिमित्तसाम्या विशेषतो यथा—

‘संचारिणी दीपशिखेव रत्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ५४ ॥’