437

सैवोपमानापकर्षेण यथा—

‘अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः ।
मा कदाचन कपोलयोर्मलं संक्रमय्य समतां 146नयिष्यति ॥ ५९ ॥’

अत्रोपमानस्य मलिनताकृतोऽपकर्षः प्रकृत एव प्रतीयते । सेयमुपमानापकर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः ।

अन्यत इत्यादि । हेसरले ऋजुप्रकृतिके, आननं मुखं मुहूर्तमन्यतोऽन्यत्र नय प्रापय । अत्र हेतुः । एष चन्द्रः कलामयः कदाचन कपोलयोर्मलं संक्रमय्य मेलयित्वा मा समतां साम्यं नयिष्यति प्रापयिष्यति । अन्यस्यान्यत्र संक्रमणे कलामयत्वं हेतुः । अन्यत इति सप्तम्यां तसिः । इह चन्द्रस्योपमानस्य कलङ्करूपमलसंबन्धकृतोऽपकर्षः साहजिक एव ज्ञायते ॥

सैवोपमानस्य किंचिदुत्कर्षेण यथा—

‘आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
कालः कलिर्जगदिदं नकृतज्ञमज्ञे स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् ॥ ६० ॥’

अत्रोपमानस्योपमेयादीषदुत्कर्षः प्रकृत एव प्रतीयते । सेयमीषदुत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

आपातेत्यादि । हे आपातमात्ररसिके एतत्क्षणमात्ररसवशे हे नायिके, सरसीरुहस्य पद्मस्य बीजं वापिकायामर्पयितुं क्षेप्तुं किमिच्छसि । किं तु नेदमर्हमित्यर्थः । अत्र हेतुः । अयं कालः कलियुगाख्यः, अत एवेदं जगन्नकृतज्ञममर्यादम् । ततो हे अज्ञे, स्थित्वा कालान्तर इदं सरसीरुहं तवैव मुखस्य शोभामथ च संपदं हरिष्यति ग्रहीष्यति । जेष्यतीति यावत् । ‘आपातः पुंसि तत्कालं’ इति मेदिनीकारः । ‘मर्यादावान्कृतज्ञः’ इति च । इह पद्मस्योपमानस्य मुखादुपमेयात्किंचिदुत्कर्षः साहजिक एव विवक्षितः ॥

  1. सुभाषितावलौ तु ‘स नेष्यति’ इति पाठः