अन्यत इत्यादि । हेसरले ऋजुप्रकृतिके, आननं मुखं मुहूर्तमन्यतोऽन्यत्र नय प्रापय । अत्र हेतुः । एष चन्द्रः कलामयः कदाचन कपोलयोर्मलं संक्रमय्य मेलयित्वा मा समतां साम्यं नयिष्यति प्रापयिष्यति । अन्यस्यान्यत्र संक्रमणे कलामयत्वं हेतुः । अन्यत इति सप्तम्यां तसिः । इह चन्द्रस्योपमानस्य कलङ्करूपमलसंबन्धकृतोऽपकर्षः साहजिक एव ज्ञायते ॥