008 शब्द एव वृत्तिस्खलितादिभिरपराघ्यति । यदि चार्थापेक्षितामात्रेणार्थदोषत्वं कथमसाधुप्रभृतीनामपि शब्ददूषणता । नहि तानि स्वरूपत एव तथापि त्वर्थविशेषो विशेष एवाश्वगोश्वादिवदिति। अर्थदोषास्तु यथा भवन्ति तथा वक्ष्याभः ।

यत्तु तुच्छाभिधेयं स्यादपुष्टार्थं तदुच्यते ॥ ९ ॥

यथा—

‘शतार्धपञ्चाशभुजो द्वादशार्धार्धलोचनः ।
विंशत्यर्धार्धमूर्धां वः पुनातु मदनान्तकः ॥ ६ ॥’

अत्र दशबाहुः, त्रिलोचनः, पञ्चवक्र इति तुच्छमेवाभिधेयमतुच्छशब्दैरुक्तमिति अपुष्टार्थम् ॥

यत्तु तुच्छाभिधेयमिति । स्तोकशब्दाभिलभ्येऽर्थे बहुतरशब्दबहुलमित्यर्थः । नहि तथा क्रियमाणमल्पीयसीमपि प्रकर्षतां पुष्यति येन त्याज्यं न स्यादित्यपुष्टपदेन सूचितम् । शतस्यार्धं पञ्चाशत्तेषां पञ्चतमोंऽशो दश । समासे पूरणप्रत्ययलोपः ॥

असंगतं पदं यत्तदसमर्थमिति स्मृतम् ।

यथा—

‘जलं जलधरे क्षारमयं वर्षति वारिधिः ।
इदं बृंहितमश्वानां ककुद्मानेष ह्रेषते ॥ ७ ॥’

अत्र जलधरो मेघः, वारिधिः समुद्रः, बृंहितं गजानाम्, ह्रेषितमश्वानामिति लोकप्रसिद्धम् । तदिह समुद्र-मेघ-अश्व-वृषभविषयतया प्रयुज्यमानमसंगतार्थत्वादवाचकमित्यसमर्थम् ॥

असंगतमिति । कथं पुनरिदमन्यार्थाद्भिद्यते । अत्राराध्याः । अन्यार्थे केवलं योगाद्रूढिर्बलवती । असमर्थे तु केवलयोगाद्योगरूढिः । तदपरे दूषयन्ति । तथापि रूढिच्युतिः साधारण्येव तदवान्तरं विशेषद्वयमन्यदिति । तन्न । भावानवबोधात् । किंचिद्धि पदमपवादकारणबलादवगम्यमानमपि योगमनपेक्ष्यैव क्वचिदर्थविशेषे वर्तते । यथा—गौरिति । नहि गमनस्य वाक्यार्थे प्रवेशः संभवति । किंचित्पुनर-