057 सजातीयमित्यासक्तो नानन्दमलभत । कुन्दस्येति प्रहतम्, कौन्दमित्यप्रहतम् । बालत्वे बकुलकुसुमानां न मधुप्रादुर्भाव इति एतत्काले रतिं न प्राप्तवानिति विधुर इत्यनेन व्यज्यते । कालान्तरेऽपि साले मधुनोऽसंभवादालम्बः प्रत्याशामात्रबन्धोऽपि न तस्यासीत् । आमोदप्रकर्षादन्तः क्षणं निपत्य रसमनासादयंल्लवङ्गमनुसरतीति लवमित्यनेन ध्वन्यते । एवमुत्तरार्धेऽपि पदस्वरसो गवेषणीयः । उक्तमेव विशेषममिसंधाय व्याचष्टे—अत्रेति । छायौज्ज्वल्यं कान्तिरित्येकार्थतया लोके प्रसिद्धं तदिह यथा शब्देषु संगच्छते तथा पूर्वाचार्यप्रसिद्ध्या विवेचनीयमित्यभिप्रायः ॥

विकटाक्षरबन्धत्वमार्यैरौदार्यमुच्यते ।

यथा—

‘आरोहत्यवनीरुहं प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
अन्तर्भ्राम्यति कोटरस्य विलसत्यालम्बते वीरुघः किं तद्यन्न करोति मारुतवशं यातः कृशानुर्वने ॥ ८२ ॥’

अत्र विकटाक्षरबन्धत्वे नृत्यद्भिरिव पदैर्यद्वाक्यरचना सा उदारता ॥

विकटेति । विकटैरक्षरैर्बन्धो यस्य तस्य भावस्तत्त्वम् । अस्ति तावन्नृत्यन्तीव पदानीति सहृदयानां क्वचिदर्थे व्यवहारः । स च न निर्विषयो नाप्यस्य विशेष इति तत्प्रमाणकमेव गुणान्तरमवस्थितमिति कश्चिव्द्याचष्टे । तथा तु न कथंचित्त्स्वरूपमुद्भिद्य दर्शितं भवति । अन्ये तु विसर्गानुप्रासादिग्रन्थिलत्वमनेनाभिमतमित्याहुः । तदपि न । और्जित्याबहिर्भावप्रसङ्गात् । तस्मादिदमत्र वाच्यम्—विकटानि विशालानि । प्रभूतानीति यावत् । तथाभूतान्यक्षराणि दीर्घानुस्वारादिरूपाणि सहृदयसंवेदनीयानि । अत एव नृत्यतुल्यता । यथा हि—नृत्येङ्गानामङ्गुल्यादीनामाकुन्चनप्रसारणक्रमेण रञ्जकत्वं तथात्रापि । तथाहि—आरोहतीत्यादौ प्रथमपादे आकारोकाराभ्यां प्रसारः । हत्यवेति संकोचः । नीरुह इतीकारविसर्गाभ्यां प्रसरणम् । नगैः स्पर्धत इति विसर्गसंध्यक्षरैर्विकाशः । द्वितीयपादेऽपि प्रसारणेनोपक्रम्यत इति नैव निर्वहणमन्तरान्तरवरोहक्रमो भवति । न चात्र यतीनां संनिवेशोऽभिमतः । मारुतवशं यात इत्यनेनोन्मादरोगगृहीत इति शब्दमूलानुस्वान-