077

यथा—

‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ॥ १०५ ॥’

अत्र नायिकाया सपत्न्यामीर्ष्यानुबन्धेन प्रतिपादितस्य प्रियतमानुरागलक्षणस्य शृङ्गारस्य दीप्तरसत्वं कान्तिः ॥

कान्तिरिति । रसोऽभिमानात्मा शृङ्गारस्तस्य दीप्तत्वं विभावानुभावव्यभिचारिभिः सम्यक् संचलितेन स्थायिना निरन्तरमुपचीयमानस्य परमकोटिगमनम् । तथा हि—मा गर्वमित्यादौ यत्र भङ्गेषु बहुतरसूक्ष्मभङ्गविशेषमयमञ्जरीलिखितेन बहिर्विषयातिरोधानलक्षणतादवस्थ्यात् प्रकाशनेन नायकस्य सपत्न्यामनुरागे विच्छायभावोक्तिः । स्वात्मनि तु सहसाविर्भवत्सात्त्विकप्रतिपादनेन जीवितसर्वस्वाभिमानात्मक्रतिस्थायिभावप्रकाशने तस्या: सापेक्षभावे नायिकाया अपि तदवस्थैव सा प्रतीयते । तदिदमाह—प्रियतमानुरागेति । अनुरागेण लक्ष्यते सप्तार्चिरिवार्चिषोपचीयत इत्यनुरागलक्षणः ॥

भूत्युत्कर्ष उदारता ॥ ८१ ॥

यथा—

‘प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु विबुधस्रीसंनिधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ १०६ ॥’

अत्र मारीचाश्रमस्य सत्कल्पवृक्षादिपदैर्वैभवोत्कर्षस्य प्रतिपादनमुदारता ॥

भूतीत्यादि । भूतिः संपत्तस्या उत्कर्षो लोकातिगप्रकर्षस्तस्यैव सहृदयचमत्कारार्पकतत्या गुणधुराधिरोहणक्षमत्वात् ॥ प्राणानामिति । उचिता तपोयोग्या ।