अर्थप्रतीतिकृदिति । इहापि तदेव दूषणताबीजं झटिति प्रतीतिजनने सति समाधीयते । समाधानोपायश्च पदान्तरसंनिधानमतिप्रसिद्धिः प्रकरणं वा । तथा हि—प्रकृतोदाहऱणे उत्तरार्धे हरिरित्यभिधानादात्मनः पदमिति हरेः पदमिति संपन्नम्, अस्य च सामान्यशब्दत्वादाकाशविषया प्रतीतिर्यद्यपि झटिति नोत्पत्तुमर्हति, तथापि शब्दगुणमिति विशेषणेन पदार्थान्तराद्यवच्छिद्य विवक्षिताभिमुखी प्रतीतिरुपजन्यते । पितुः पदमिति । यद्यपि पदमिति सामान्यं तथाप्याकाशस्यैव मध्यमचरणविन्यासस्थानत्वेन प्रसिद्धेर्न तथोचितप्रतीतिव्यवधानम् । काञ्चीगुणस्थानमिति । चरणादारभ्य वर्णनाक्रमे नितम्ब एव काञ्चीनिवेशनस्योचितत्वान्न प्रती-093 तिव्यवधानम् । तदिदमुदाहरणत्रयप्रयोजनमुदाहरणादेरनेकोऽत्र वाक्यार्थो गवेषणीयः । कथं तर्हि सर्वप्रसिद्धेरिति ब्रवीति । इत्थं शब्दगुणशब्दस्य बहुव्रीहित्वादवश्यं विशेषपर्यवसानाय प्रसिद्धिरनुसरणीया । अवश्यं न वर्णनक्रमेऽपि काञ्चीगुणस्थानमनिन्दिताया इत्यत्र काञ्चीगुणस्थानशब्दस्य नितम्बविशेषपर्यवसानार्थं कवीनामौचित्यप्रसिद्धिरङ्गीकर्तव्येति । ननु चात्मनः पदं शब्दगुणत्वमित्यत्र प्रसादः कस्मान्न भवति । एवमाह न भवतीति । उदाहरणस्यादूषणत्वात्सामान्यशब्दस्य विशेषपर्यवसानम्, अन्यच्च समभिव्याहृतपदार्थसंसर्गरूपे वाक्यार्थे स्वच्छसलिल इवाभिमतविशेषप्रतिबिम्बनमित्युपाधिद्वयस्य संकराच्च ॥