पुनरपरेण प्रकारेण संव्यानं भवतीत्यप्रशस्ते स्फोरयति । परमेश्वरस्य मङ्गलायतनत्वं तत्संबन्धिमात्रस्यैव मङ्गलीभवननियमेन शास्त्रेतिहासादौ प्रसिद्धत्वात् । तदुक्तम्—‘तथापि स्मर्तॄणां वरद परमं मङ्गलमसि’ इति । अयं च प्रकारोऽप्रशस्तार्थ एव भवति । मार्यादयो मातृविशेषाः । आरात्रिकं नीराजनदीपव्यासङ्गपात्रम् । परिजनपदं संबन्धं पुष्णाति ॥

द्वितीयं गोपनप्रकारमशस्तार्थान्तरं व्यञ्जयति—