103

एवमिति । अनित्योऽयं दोषः । तेन यत्र दोषता नास्ति तत्र विषये रसप्रकाशसामग्र्याभन्तर्भावात्कथं न गुणत्वम् । अन्तर्भावश्च द्विधा—प्रयोगविषयौचित्येन वा, वागनुभावौचित्येन वा । तत्र प्रथमं दर्शयति—किंचिदिति । यथाञ्जनस्य नाञ्जनवल्ल्यादिसंगतत्वेन शतशो भाव्यमानस्याप्युद्दीपनविभावना । भवति तु कान्ताविलोचनचुम्बितयानुसंधीयमानस्य । तथापदस्यापि विषयेऽतद्विषये च प्रयुज्यमानस्य । तदेतव्द्याचष्टे—अत्राश्रयस्येति ।

संनिवेशवशात्किंचिद्विरु42द्धमपि शोभते ।
नीलं पलाशमाबद्धमन्तराले स्रजामिव ॥ १०७ ॥

तद्यथा—

‘अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः 43पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब- न्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १५१ ॥’

अत्र श्रृङ्गारिणो हि जगदपि श्रृङ्गारमयं पश्यन्तीति बीभत्सरसेऽपि 44माधवेनान्त्रादियदानामन्तरालेषु निवेशितानां मङ्गलप्रतिसरादिपदानामदोषः ॥

द्वितीयमन्तर्भावप्रकारं व्युत्पादयति—संनिवेशवशादिति । संनिवेशो वागनुभावः । औचित्याकृष्टपदघटना तद्वशत्वं तदाकृष्टत्वमत एव विरोधिसंगततया विजातीययोरप्यौचितीवशेन कान्तिविशेषोन्मीलकत्वात् पत्रपुष्पव्यतिकरजमालासादृश्यं दर्शयति—नीलमिति । अन्त्रैरित्यादौ प्रत्युत्पन्नदोषोन्मत्तप्रेताङ्गनावलोकस्य माधवस्यालम्बनोद्दीपनविभावादिप्रकर्पे बीभत्सरसोत्सेकस्तावदुपपन्नः । यस्त्वयमकस्मादेव मङ्गलादिपदानां शृङ्गारानुयायिनामिह निवेशः स कथं दोषभावादपनेतव्यः, कथं वा गुणत्वमासादयितव्यमित्यतो हेतुगर्भं व्याचष्टे—अत्र श्रृङ्गारिण इति । श्रृङ्गारवासनानिविष्टः श्रृङ्गारी । तथा च पूर्वं बीभत्सरसान्वयेऽपि प्रकृत श्रृङ्गारभङ्गो मा भूदित्येतदर्थमेव कविना ‘मम हि’ इत्यादिना प्रतिज्ञाय ‘लीनेव’ इत्यादिवासनादृढत्वमुपपादितम् । अत एव प्रतिपदं रूपकमाविष्टाभिप्रायमेवं श्रृङ्गारमयं श्रृङ्गाराङ्ग-

  1. ‘दुरुक्त’ ग
  2. ‘पिनद्धशिरसा’ ग
  3. ‘मार्दवेन’ क