109 लङ् च’ इत्यनेन माशब्दादुत्तरं यत्र स्मशब्दप्रयोगस्तत्र लुङ्लङोर्विधाने पदक्रमनियमः कृतस्तत्कथं स्म ममेति प्रयुक्ते सोऽर्थः प्रत्येतव्य इत्यत आह—व्यस्त इति । विशेषेण लक्ष्यत इति विशेषणलक्षणं तस्य भावस्तत्त्वम् ॥

पर्यायेण द्वयोर्यत्र वाक्यं प्रश्नोत्तरादिषु ।
संकीर्णं तन्न दोषाय वाकोवाक्यविदो विदुः ॥ ११७ ॥

यथा—

‘बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ १५८ ॥’

अत्र संकीर्णत्वेऽपि वाकोवाक्यत्वान्न दोषः ॥

पर्यायेणेति । यत्र वाक्यैकवाक्यतायामवान्तरवाक्येषु परस्परपदार्थप्रवेशेन यथाभिमतसंसर्गप्रतीतिः स्खलिता भवति तत्र संकरो दूषणम्, प्रतीतेरस्खलने तु न दोषः । स्खलनं चानेकवक्तृकपर्यायप्रवृत्तवाक्यावयवमिश्रणेन भवति । तदपि मिश्रणं प्रश्नोत्तररूपमन्यादृशं वा भवतीत्याह—प्रश्नोत्तरादिष्विति । विषयसप्तमीयम् । वाक्ये वाक्यं वाकोवाक्यं पृषोदरादित्वात्साधु । तत्र प्रश्नोत्तरादिरूपं वाकोवाक्यमुदाहरति—बाले इति । अत्र ‘बाले विमुञ्च मां प्रति रुषम्’ इति प्रथमप्रश्नवाक्यम् । ‘नाथ रोषान्मया किं कृतम्’ इति तादृशमेवोत्तरवाक्यम् । तत्र बाले इति वाक्यप्रतीकानन्तरमेव नाथेति वाक्यान्तरप्रतीकस्य निर्देशः संकीर्णजातीयतामाकारयितुमुद्यतः प्रश्नोत्तरप्रभावादपोद्यते । संकीर्णयोरपि वाक्ययोः पर्यायनिर्देशे भवत्येव वाकोवाक्यमिति चेत्, न । व्यतिकरस्याभिप्रायविशेषव्यञ्जकतया चमत्कारकारित्वेन विजातीयत्वात् । अत एव गुणत्वम् । तथा हि बाले इति पदं परचित्तानभिज्ञायाः क्षुद्रसहचरीवचसि विश्वासभाजः सोपालम्भं संबोधनमाविष्करोति । एतदाकर्ण्यानन्तरमेवेर्ष्याकषायकामिनीवचनमुचितमिति नाथेति संबोधनं साभिप्रायम्, प्रभुरसि न पुनरस्मासु दत्ताशयो न वा स्वाधीनतासौभाग्यभागिति विवक्षितत्वात् । एवमुत्तरत्र स्वयमुन्नेयम् । उपलक्षणं च द्वयोरिति एकस्यापि वक्तुः प्रहेलिकादौ तद्विद्यविषये तदाभाषणस्योचितत्वात् । विजातीयवाक्यद्वयसंदंशपतित-