अत्र ग्राम्यः प्रष्टा नगरमागतो राजानं दृष्ट्वा ग्राम्यैः प्रकृतिस्थैरेव वा पदैः प्राकृतेन पृच्छति—‘हा तो जो ज्जलदेउ’ इति । नागरश्च तमनुजिघृक्षुरुपनागरैः कोमलैर्वा पदैः सवक्रोक्ति प्रत्याचष्टे—‘नैव मदनः साक्षादयं भूतले’ इति । अथ ग्राम्य आहितप्रतिभः पूर्वपदानुरोधादर्धप्राकृतेनैव ग्राम्योपनागरैः प्रकृतिस्थकोमलैर्वा पदैस्तमुपालभते—‘तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते’ इति । अथ नागरो ज्ञाततत्प्रावीण्यः52 पादानुरोधादेव अर्धप्राकृतेन ग्राम्योपनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः समाधत्ते—‘ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे’ इति । अथ ग्राम्यः श्लोकसमाप्तेः पादस्य तदुत्तरस्य चानुरोधाद्ग्राम्याणि प्रकृतिस्थानि वा त्रिचतुराणि पदानि प्राकृते नोक्त्वा पादार्ध एव तिष्ठति—‘ऐसें सच्च जि बोल्लु’ इति । अथ नागरो जितकाशी ग्राम्यो-111 पनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः श्लोकमुत्तरं च पूरयति—'हस्तकटकः किं दर्पणेनेक्ष्यते’ इति । तत्र च प्राकृतानां सर्वेषामपि ग्राम्यत्वम् । प्रष्टुः संस्कृतपदेषु वपुरित्युपनागरं शेषाणि ग्राम्याणि, प्रतिवक्तुश्च हस्तविवाह गौरीपदानि ग्राम्याणि, भूतपतिनेति नागरम्, शेषाण्युपनागराणि । तदिदमीदृशि प्रमेये तथैवोपक्रमादेतन्न दुष्यति ॥

  1. ‘ण्यस्तत्पदा’ क-ख