118 यत्परास्तस्यैवोपमानताप्रतीतिस्तथा चानेनेदं तुल्यमिति साधारणधर्मविधिरूपा कथमुपमेत्यत उक्तम्—तुल्यधर्माणां त्विति । नात्र वचनश्लेषतुल्यधर्मागमः, अपि तु तथा ‘व्यवस्थितानामेव शब्दतन्त्रता’ इति ‘धर्मस्य प्रभवः’ इत्यादिभि64र्द्विवचनश्लेषैस्तथापि विषयोपहृत इति । यदि चेवादिमन्तरेण नोपमाप्रतीतिस्तर्हि प्रसिद्धमुपमोदाहरणं भज्येतेत्याह—यथेति । अग्रतश्चतुर्थपरिच्छेदे । अत्राप्युपमामनङ्गीकुर्वतो मतमाशङ्कते—नन्विति । इहापि चकाराभ्यां युगपत्पल्लवाधरयोरेकधर्मविधानस्य तुल्यत्वादिति देश्याभिप्रायः । उक्तयुक्तया दूषयति—उच्यत इति । तर्हि प्रकृतोदाहरणे नास्त्येवोपमा, कथं वचनभेदस्य गुणीभाव उदाह्रियत इत्याह—यत्रेति । यद्यप्यभिधीयमानं नास्ति सादृश्यम्, तथापि प्रतीयमानोपमा व्यवह्रियतामित्यर्थः । शब्दमात्रसाम्यं श्लेषसंकीर्णमेवेत्युपेक्षितवान् । ननु यत्रोपमया काव्यव्यपदेशस्तत्र प्रतीयमानमपि सादृश्यमूरीक्रियते । यत्र त्वलंकारस्वभावव्यवस्थापितमेव काव्यं न तत्रापीत्याह—उपलक्षणमिति । प्रतिपत्तिवैरूप्यस्यालंकारान्तरसाधारण्यादुपमातोऽन्यत्रापि लिङ्गवचनभेदो दूषणमेव । तद्यथा 'मुखं पद्मम्’ इति रूपके, ‘मुखं पद्मं वा’ इति संशये, ‘न मुखं पद्ममेव’ इत्यपह्नवे । एवमन्येऽपि । अत एव द्वे भिन्नलिङ्गवचने इत्यत्र नोपमाग्रहणम् । यद्येवं कथमुपमायामेव दूषणमुदाह्रियत इत्यत आह—केवलमिति । चिरंतनैर्हि भरतमुनिप्रभृतिभिर्द्वे एव यमकोपमे शब्दानुगतालंकारत्वे नेष्टे । तत्प्रपञ्चनमात्रं तु पुनरन्यैरलंकारकारैः कृतमुपमायाः प्रभूतविषयतया प्राधान्याच्चोदाहृतमतिस्फुटं भवतीति संक्षेपः ॥

यत्रोपमानधर्माः स्युर्नोपमेयेन संमिताः ।
तद्धीनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति ॥ १२१ ॥

यथा—

‘स मारुताकम्पिंतपीतवासा बिंभ्रत्सलीलं शशिभासमब्जम् ।
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ॥ १६४ ॥’

अत्र सेन्द्रायुध इति 65कार्मुकमात्रस्योपादानं वासःशङ्ख्योस्त्वनुपादानादूनोपमत्वम् । तत्रेन्दुविद्युतोरतिप्रसिद्धत्वाददोषत्वम् ॥

  1. ‘र्भिहिं वचनश्लेष’ इति स्यात्
  2. ‘कार्मुकमात्रोपादानं’ क; ‘कार्मुकस्योपादा’ ग