121 र्तथापि तीव्रप्रयत्नोच्चारणीयशकारहकारादिसंयोगमहिम्ना नावच्छेदश्रव्यता कलुषीक्रियत इति । एवमन्यदप्युदाहार्यम् । यथा—

‘धबलाइं गलेत्ति धवलेहिं अणञ्जणसामलेहि णिसालआए ।
णखवत्तकुसुमाइं णहअलाओ ओसरइ ॥’

इत्यादि नामधातुभागे स्वरासंधाने च पठितिविच्छेदो न भवतीत्युक्तं स 72तदुल्लंङ्घनमात्रेण समाधीयते शोभां पुष्यतीति ॥

वाक्यमस्थानविरति प्राग्भग्नयतिसंज्ञया ।
समुद्दिष्टं यदधुना गुणत्वं तस्य कल्प्यते ॥ १२४ ॥

यथा—

‘शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः किंचिद्भावालसमसरलप्रेक्षितं कामिनीनाम् ।
कार्याकार्याण्ययमविक73लान्यागमेनैव पश्य- न्वश्यामुर्वीं वहति नृप इत्यस्ति चायं प्रयोगः ॥ १६७ ॥’

अत्र पादत्रये चतुर्थस्थाने यतौ कर्तव्यायां पञ्चमस्थाने कृतत्वादपरत्र च पादस्य मध्यभागे निविष्टकेवलस्वरत्वाद् यतिभ्रंशेऽपि स्वरसंधिकृतत्वादविभिन्ननामधातुशरीरत्वाच्च न दोषत्वम् ॥

यदाह—

‘स्वरसंध्यकृते प्रायो धातुभेदे तदिष्यते ।
नामभेदे च शेषेषु न दोष इति सूरयः ॥
लुप्ते पदान्ते शेषस्य पदत्वं निश्चितं यथा ।
तथा संधिविकारान्तं पदमेवेति वर्ण्यते ॥’

वाक्यमिति ।.........................................।

शोभामिति ।..........................................।

  1. ‘मुल्लङ्घ्य’ स्यात्
  2. ‘विकलेनागमेनैव’ क