125 नुभवनीयं दुःखं छिनत्ति । श्रियापि स्तुतेति । अष्टदलकमलबन्धोऽयम् । तदिह तथा वरा(?)संनिवेशस्य चमत्कारकारित्वेन प्रसादोऽपि सहृदयश्लाघाविषयो गुणतामध्यास्त इति ॥
यथा—
अत्र दहत्वित्यादीनामध्याहार्यतया नेयत्वेऽप्यतिप्रसिध्द्या प्रतीयमानत्वाद्गुणत्वम् ॥
अध्याहारेति । असंपूर्णं वाक्यं नेयार्थमित्युक्तं तस्यैवंरूपता झटिति श्रुतार्थापत्तिप्रादुर्भावपरिह्नवकसंधानात्समाधीयते । तथा हि—‘मा भवन्तमनलः’ इत्यादौ वृक्षसमभिव्याहारेण दहनादीनां योग्यतया शीघ्रमेव धाक्षीदित्यादिक्रियान्वयोऽवसीयते । स्वस्तिवचनेन चामङ्गलप्रस्तावनिरासात्तथाभूतक्रियानुपादानं वक्रक्षमतया गुण इति ॥
यथा—
अत्र ग्राम्यत्वेऽपि ग्राम्यार्थस्य विदग्धोक्त्या तिरस्कृतत्वाद्गुणत्वम् ॥
असभ्यार्थमिति । रसस्यादीप्तिः कान्तिविपर्ययो 86वचनापराधेन दूषणतामध्यास्ते, स समाधीयतेऽत्र ग्राम्योक्तिपरिहारेणैव । अत एवोक्तिसमर्पितच्छायाविशेषयोगे गुणत्वलाभः । सहृदयसभायां न साधुरसभ्यः । वैदग्ध्यविधुरं ग्राम्यम् ॥