127
91अनलंकारमित्याहुरलंकारोज्झितं वचः ।
पूर्वोत्तरानुसंधाने तस्य साधुत्वमिष्यते ॥ १३४ ॥

यथा—

‘निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद्दृशा ॥ १७६ ॥’

अस्यानलंकारत्वेऽपि पूर्वापरानुसंधानप्रयोजनभूतत्वाद्गुणत्वम् ॥

अनलंकारमिति । अनुत्कृष्टाप्रविष्टविशेषणवद्वाक्यं निरलंकारः पूर्वोत्तरवाक्यसंगतिकरणप्रयोजनकतया न दोषः । कथं तथाभूतस्य काव्यत्वमित्यपि न वाच्यम् । अनुगतेन वक्रीभावेन तत्समर्थनात् । व्यक्तमुदाहरणम् ॥

सूत्रकार एव वाक्यार्थदोषगुणीभावविवेचनं संगमयति—

वाक्याश्रयाणां दोषाणां गुणीभावोऽयमीरितः ।
अथ वाक्यार्थदोषाणामदोषः कथ्यतेऽधुना ॥ १३५ ॥
समुदायार्थशून्यं यत्तदपार्थं प्रचक्षते ।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति ॥ १३६ ॥

यथा—

‘क्वाकार्यं92 शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो93 रेखैव सान्यादृशी चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं धास्यति ॥ १७७ ॥

अत्र समुदायार्थशून्यत्वेनापार्थस्याप्युन्मत्तवचनत्वाद्गुणत्वम् ॥

वाक्याश्रयाणामिति । 94सत्तादिवचनान्यनुक्रियमाणानि चमत्कारमर्पयन्ति । अत एव छायालंकारप्रादुर्भावाद्गुणः । अनित्यदोषतया चानुकरणादन्यदपि गुणीभवनबीजमुन्नेयमित्युदाहरणेन व्यञ्जयन्नाह—क्वाकृत्यमिति । अत्र श्रुतिशालिनो

  1. ‘निरलंकार’ ग
  2. ‘कृत्यं’ ग
  3. ‘धियः स्वप्नेऽपि सा दुर्लभा’ ग
  4. ‘मत्तादिववनान्य’ पाठः