024 स्वरूपं स्वयमेव गुणीभावप्रस्तावे लेशतः प्रकाशयिष्यति तेनेह संक्षिप्तवान् । नैवंविधः कदापि व्यतिकरो महाकविगिरामाजानिकः प्रवर्तते । तथा हि—‘त्यजतो मङ्गलक्षौमे दधानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥’ अत्र प्रथमादिषु पादेषु क्षौमचीरविस्मितरागपदानि उपनागराणि शेषाणि ग्राम्याणि । प्रतिपादं च प्रकृतिस्थकोमलाभ्यामेव निर्वाहः । एवमन्यत्रापि प्रत्येकं द्वन्द्वसमुदायैः प्रतिपादमुपक्रमोपसंहारनिर्वाहक्रमः स्वयमुपलक्षणीय इत्यास्तां तावत् ।

वाक्यान्तरसगर्भं यत्तदाहुर्वाक्यगर्भितम् ॥ २४ ॥

यथा—

‘योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया ।
रक्षैनं यदि शक्तिर्मृत्युवशं नीयते विवशः ॥ ३२ ॥’

अत्र योग्यो यस्ते पुत्रो लक्ष्मणेन मया मृत्युवशं नीयत इति वाक्यस्य रक्षैनं यदि शक्तिरिति वाक्यान्तरेण सगर्भत्वाद्गर्भितम् ॥

वाक्यान्तरेति । मध्यप्रविष्टं वाक्यं पूर्वोत्तरभागाभ्यामेकीभूतस्य गर्भायमाणमेकखरसप्रसूतां प्रतीतिं विघ्नयदात्मना सहैव समुदायविरसकक्षामारोहयति । वाक्यान्तरवाक्यस्य विशेषो विवक्षितः प्रतीतिव्यवधायक इति यावत् ॥ योग्य इति । मयेति । कारकविभक्तेः क्रियाकाङ्क्षणशीलायास्तामसंगमय्य मध्य रक्षैनं शक्तिरित्येतावता गर्भस्थानीयेन विरसीकरणमित्याह—अत्र योग्यो य इति । एवं वाक्यरूपताभङ्गहेतून्दोषानभिधाय तत्रैव काव्यभावप्रत्यूहहेतवोऽभिधातव्यास्ते च गुणभङ्गद्वारकाः, अलंकारभङ्गद्वारकाः, छन्दोभङ्गद्वारकाः, यतिभङ्गाद्वारकाश्चेति चतुर्धा विप्रथन्ते । ततश्च यद्यपि प्रथमं गुणभङ्गद्वारका वक्तुमुचितास्तथापि तेषां बहुत्वाद्दुरूहत्वाच्च सूचीकटाहन्यायेन पश्चात्करणमलंकारभेदादिषु च मध्ये प्रतियोगिद्वारालंकारभङ्गस्य प्राधान्यमिति तद्द्वारा दोषांल्लक्षयति ॥

यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते ।
भवेत्तद्भिन्नवचनं यद्भिन्नवचनोपमम् ॥ २५ ॥

यथा—

‘अविगाह्योऽसि नारीणामनन्यवचसामपि ।
विषमोपलभिन्नोर्मिरापगेवोत्तितीर्षतः ॥ ३३ ॥’