भवेदिति । स एव संदर्भो मृदुमध्यकठोरवर्णनिर्व्यूढास्तिस्त्रो बन्धजातयस्तत्रैकरूपे वाक्यार्थे एकैव जातिरुपादेयेति तद्विपर्यासो वैराग्यहेतुरेव । उत्छलन्तः शीकरा यस्मात्तथाच्छाच्छमत्यच्छम् । द्वयमपि निर्झराम्भोविशेषणम् । मलयमारुतस्योद्दीपनविभावभूतस्य वर्णमात्रवैरूप्यमस्येत्याशयवानाह—अत्र पूर्वार्धस्येति । शब्दप्रधानतामस्य विवृणोति—समबन्धेष्विति ॥