038 चेति । शब्दवृत्त्यैवावगतस्य शब्दवृत्त्या पुनरुक्तम् । अर्थंतो लब्धस्य शब्दवृत्त्या मणनमिंत्येकः प्रकारः । अर्थतो लाभं व्युत्पादयति—शास्त्रेति । अस्य रघुकुलभुवः शरभङ्गाश्रमगमनमितिहासाच्चक्षुषः प्राप्तस्यैव ज्ञानजनकत्वं शास्त्रात् । शरभङ्गसंबन्धिन्येव तनुर्लोकव्युत्पत्तेस्तेन नियमेन ह्यर्थतः प्राप्तिर्भवतीत्यभिप्रायः ॥

उक्त्यभिन्नार्थमेकार्थ

यथा—

‘प्रसाधितस्याथ मुरद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतम् ।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ ५२ ॥’

इत्युक्तैकार्थमेवाह—

‘कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
आलिङ्गिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ ५३ ॥’

अनयोः श्लोकयोरभिन्नार्थमेकं वाक्यं महावाक्ये दुष्यति ॥

उक्त्यभिन्नार्थमिति । वाक्यान्तरोक्त्याभिन्नस्तात्पर्यार्थो यस्य तत्तथोक्तम् । तथा हि—‘प्रसाधितस्य-’ इत्यादिश्लोके श्लेषोपहितेन व्यतिरेकेण काप्यपूर्वा कृष्णस्य लक्ष्मीस्तत्काले बभूवेति तात्पर्यार्थः । तेनैव प्रकारेणं ‘कपाट-’ इत्यग्रिमश्लोकें स एवास्ति । तुल्यार्थत्व उपादानं भिन्नार्थत्वेऽपि । तदिदमाह—अनयोः श्लोकयोरिति । महावाक्ये श्लोकद्वयरूपे एकम्, अन्यतरद्दुष्यति । हेयं भवतीत्यर्थः ॥

संदिग्धार्थ संसशयम् ।

यथा—

‘मनोरथप्रियालोकरसलोलेक्षणे सखि ।
आराद्वृत्तिरियं माता न क्षमा द्रष्टुमीदृशम् ॥ ५४ ॥’

अत्रारात्प्रभृतिशब्दानामुभयार्थत्वान्माता द्रक्ष्यति न वेति संदिग्धम् ॥

संदिग्धार्थमिति । शब्दस्वरूपनिश्चयेऽपि वाक्यार्थो दोलायित इत्यर्थदोषत्वम् । तथा हि—मनोरथेत्यादौ मनोरथे यः प्रियो वल्लभस्तदालोकरसेन लोलेक्षणे चपललोचने तव मातेयमाराद्वृत्तिर्दूरवार्तिनी । अतो नैतादृशं सानुरागाङ्गनाजनयोग्यं द्रष्टुं क्षमा इति व्यवस्थापनान्नावलोकयितुं शक्ता ततो निःशङ्कमालोकस्वेति