संदिग्धार्थमिति । शब्दस्वरूपनिश्चयेऽपि वाक्यार्थो दोलायित इत्यर्थदोषत्वम् । तथा हि—मनोरथेत्यादौ मनोरथे यः प्रियो वल्लभस्तदालोकरसेन लोलेक्षणे चपललोचने तव मातेयमाराद्वृत्तिर्दूरवार्तिनी । अतो नैतादृशं सानुरागाङ्गनाजनयोग्यं द्रष्टुं क्षमा इति व्यवस्थापनान्नावलोकयितुं शक्ता ततो निःशङ्कमालोकस्वेति 039 वाक्यार्थ उतेयमारद्वृत्तिः समीपदेशवर्तिनी । ‘आराद्दूरसमीपयोः’ । तथा चेदृशं कुलाङ्गनानुचितं चारित्रखण्डनं द्रष्टुं न क्षमा न सहिष्णुरतोमानयनचापलं काषींरिति । नानार्थपदप्रक्षेपात्साधकबाधकप्रमाणाभावाच्च संदिह्यत इत्याह—अत्रारात्प्रमृतिशब्दानामिति । न च मिथो विरोधिनोरेकत्र विवक्षा संभवति । न चास्ति प्रकरणादिकमेकनियामकं । न च मातुः प्रकोपशङ्कया प्रियविलोकनरसोत्काया मनोरथभङ्गो न भवतीत्यर्थः ॥