041

यत्त्विति । ‘खाद विषं, पिब मूत्रं, नीयस्व मार्या, पततु ते वज्रम्’ इत्थं माता पुत्रमाकोशति । किं कृत्वा । क्षिघ्वा भूमौ निरस्य । कुतः । दन्तखण्डितस्तनी । यतो बालो दन्तैर्मातुः स्तनं दशतीति जातिस्तस्याः पुनरेवंविधं परुषाभिधायित्वमनुचितम् । अतिपारुष्यमेव चात्र विरसताहेतुः । तेनातिमात्राद्भेदः ॥

अप्रस्तुतरसं यत्स्याद्विरसं तन्निगद्यते ॥ ५० ॥

यथा—

‘तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा ।
सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ ५९ ॥’

अत्र पितृमरणसंतप्तायाः संभोगप्रवर्तनमप्रकृतरसत्वाद्विरसम् ॥

अप्रस्तुतेति । अप्रस्तुतः प्रस्तावमन्तरेण सूचिचो रसो यत्र तत्तथा । एकरसप्रक्रमे हि विरोधिरसान्तरप्रस्ताव एव क्रियमाणो नौचित्यवान् । न चौचित्यम- न्तरेण रसस्य पदसंबन्धः संभवति । यदाह—‘अनौचित्यादृते नास्ति रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥’ इति । तव वनवास इत्यादौ पितृमरणानुभवप्राप्तशोकप्रकर्षायाः शृङ्गारप्रस्तावना विरसायते । सा हि स्वभावत एव करुणेन सहैकवाक्यसमावेशविरोधिनी । न चैकस्य बाध्यत्वमङ्गभावो वावगम्यते । नाप्युभयोरन्यगुणीभावोऽवगम्यते । येनायं विरोधः समाधीयताम् । युक्तिरत्र विदग्धैव । अर्थस्तु रसात्माविरोधेन पदं बध्नाति ततः कान्तिविपर्ययाद्भेदः । न च करुणोक्तिरुपक्रान्ता यतस्तदनिर्वाहे खेदसंभावना स्यात् । किंतु पितृमरणशुचं जहीहीत्यनेन शोकाविष्टायां शृङ्गारप्रस्तावना । तथा च भिन्नमेव दुष्टताबीजं तदेतत्सर्वमपि संधाय व्याचष्टे—अत्रेति ॥

इदानीमनौचित्यरूपदूषणप्रस्तावः । अर्थालंकारेषूपमाप्रधानमिति प्रसिध्द्या तस्यामेवोपलक्षणतयानौचित्यं प्रपञ्चयति—

हीनं यत्रोपमानं स्यात्तत्तु हीनोपमं स्मृतम् ।

यथा—

‘क्वचिदग्रेऽप्रसरता क्वचिदाप्लुत्य निघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषत्कुलम् ॥ ६० ॥’

अत्र शौर्यशालिनः शुनोपमितत्वाद्धीनोपममिदम् ॥