045
विरुद्धं नाम तद्यत्र विरोधस्रिविधो भवेत् ।
प्रत्यक्षेणानुमानेन तद्वदागमवर्त्मना ॥ ५४ ॥
यो देशकाललोकादिप्रतीपः कोऽपि दृश्यते ।
तमामनन्ति प्रत्यक्षविरोधं शुद्धबुद्धयः ॥ ५५ ॥

तत्र देशविरोधो यथा—

‘सुराष्ट्रेष्वस्ति नगरी मथुरा नाम विश्रुता ।
अक्षोटनारिकेराढ्या यदुपान्ताद्रिभूमयः ॥ ६६ ॥’

अत्र सुराष्ट्रेषु मथुरा नास्ति । तत्पर्यन्तादिभूमिषु चाक्षोटनारिकेराणामभावात् । देशेऽद्रिवनराष्ट्रादिरित्ययं देशकृतः प्रत्यक्षविरोधः ॥

विरुद्धमिति । तत्र देशकालादौ प्रत्यक्षत एव वर्ण्यमानस्याभावो निश्चीयते इति देशादिविरोधः प्रत्यक्षविरोधः । शूरसेनेषु मथुरा न सुराष्ट्रेषु । तत्पर्यन्तभूमिष्वक्षोटा नालिकेरा वा न संभवन्ति । अद्रीणां कथं देशत्वमित्यत आह—देशोऽद्रिवनराष्ट्रादिरिति ॥

कालविरोधो यथा—

‘पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्वती ।
मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ ६७ ॥’

अत्र पद्मिन्या नक्तं कुमुद्वत्या अह्नि मधौ निचुलानामुन्निद्रत्वाद्यभावान्निदाघस्य चामेघदुर्दिनत्वात् । कालो नक्तं दिनर्तव इति कालकृतोऽयं प्रत्यक्षविरोधः ॥

पद्मिनीति । नक्तं रात्रौ । मधुर्वसन्तः । निचुला हिज्जलाः । ते वर्षासु पुष्प्यन्ति न वसन्ते । यद्यपि कालस्वरूपमप्रत्यक्षं तथापि तदुपाधीनां व्यवहाराङ्गतेव प्रत्यक्षता चेत्याह—कालो नक्तं दिनर्तव इति ॥

लोकविरोधो यथा—

‘आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः ।
गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥ ६८ ॥’