तत्र देशविरोधो यथा—
अत्र सुराष्ट्रेषु मथुरा नास्ति । तत्पर्यन्तादिभूमिषु चाक्षोटनारिकेराणामभावात् । देशेऽद्रिवनराष्ट्रादिरित्ययं देशकृतः प्रत्यक्षविरोधः ॥
विरुद्धमिति । तत्र देशकालादौ प्रत्यक्षत एव वर्ण्यमानस्याभावो निश्चीयते इति देशादिविरोधः प्रत्यक्षविरोधः । शूरसेनेषु मथुरा न सुराष्ट्रेषु । तत्पर्यन्तभूमिष्वक्षोटा नालिकेरा वा न संभवन्ति । अद्रीणां कथं देशत्वमित्यत आह—देशोऽद्रिवनराष्ट्रादिरिति ॥
कालविरोधो यथा—
अत्र पद्मिन्या नक्तं कुमुद्वत्या अह्नि मधौ निचुलानामुन्निद्रत्वाद्यभावान्निदाघस्य चामेघदुर्दिनत्वात् । कालो नक्तं दिनर्तव इति कालकृतोऽयं प्रत्यक्षविरोधः ॥
पद्मिनीति । नक्तं रात्रौ । मधुर्वसन्तः । निचुला हिज्जलाः । ते वर्षासु पुष्प्यन्ति न वसन्ते । यद्यपि कालस्वरूपमप्रत्यक्षं तथापि तदुपाधीनां व्यवहाराङ्गतेव प्रत्यक्षता चेत्याह—कालो नक्तं दिनर्तव इति ॥
लोकविरोधो यथा—