अत्र येन ध्वस्तमनोभवेनेत्यादेर्येन ध्वस्तमनोऽभवेनेत्यादेश्च पदभेदादुमाधवो माधव इत्यर्थद्वयं प्रतीयते । तयोश्च द्वयोरपि प्राधान्येनोपपादनादङ्गाङ्गिभावेन प्रकृताप्रकृतरूपतया चानवस्थानात्परस्परमसंबन्धेनायं श्लेषः । पदभेदेन तु पाठे पर्यायतोऽर्थद्वयप्रतीतेरियं श्लेषोपसर्जना पदभेदपठितिः ॥