196

पादान्यथाकरणेन यथा—

‘एकान्ते विजने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या संभवति क्रिया ॥ ८६ ॥’

अत्र तृतीयपादस्थाने ‘तन्वङ्गी यदि लभ्येत’ इति पाठो भवति, तदैतत्परीक्षौपयिकमपि कामौपयिकं भवति ॥

एकान्त इति । साहसे प्रच्छन्नाभिसारलक्षणे प्रकाशात्प्रच्छन्नो गरीयानिति न्यायात् । दिव्या स्वभोगसोदरा क्रियावल्लक्षणा ॥

अर्धान्यथाकरणेन यथा—

‘तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्यते सकलधामनिधौ तु तस्मिन्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ८७ ॥’

अत्र यदा मध्यमपादयोः स्थाने ‘यावन्न ताः किमपि गौरितरा हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिः’ इति पठ्यते, तदैतद्वीरार्थोक्तिरूपमपि शृङ्गारोक्तिरूपं संपद्यते ॥

गौरितरेति । ‘घरूप—‘इत्यादिना पूर्वपदह्रस्वः ॥

पादत्रयस्य चान्यथाकरणेन यथा—

‘त्यागेन युक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति ।
न त्यागिनां दुष्करमस्ति किंचित्त्यागो हि सर्वव्यसनानि हन्ति ॥ ८८ ॥’

अत्र तुरीयपादमेवोपादाय पादत्रयस्य चान्यथाकरणेन वक्ष्यमाणः पाठो भवति । तदैतत्त्यागप्रशंसार्थमपि त्यागनिन्दार्थं जायते । यथा—

‘त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि संप्रतीदम् ।
जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः ॥ ८९ ॥’

एतेषां च पदाद्यन्यथाकरणानां परस्परसंकरोऽपि भवतीत्यावेदयति ॥