203

आयतिरुत्तरकालविशुद्धिः । यतेन्द्रियो विजितेन्द्रियग्रामः । एवंभूतो भवान्यतेर्न हीयते । यतितुल्य एव भवतीत्यर्थः । अपिशब्दो भिन्नक्रमः । अमायता मायाशून्यत्वं सापि तव इयते परिच्छेत्तुमशक्याय क्षयं विनाशमयतेऽगच्छते सुखायाभूत् ॥

तदेवान्तयमकं यथा—

‘भवादृशा नाथ न जानते नते रसं विरुद्धे खलु सन्नतेनते ।
य एव दीनाः शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते ॥ १०७ ॥’

तदेतत्सर्वमप्यवहितावृत्तेरव्यपेतयमकं भवति ॥

नतेः कुपितकामिनीप्रसादरूपाया रसो विप्रलम्भपृष्ठभावी मधुरतरः संभोगः किमिति तादृशा रसं न जानते । यस्मात् सन्नता अवसादयोगित्वमिनता प्रभुता, एते द्वे विरुद्धे नैकत्र संभवतः । नहि प्रभवो नमन्ति । एतदेव व्यतिरेकेण द्रढयति—य एवेति । ये दीनास्त एव नतेन शिरसा लक्षितास्तेन हेतुना दैन्यरसेनालमत्यन्तं चरन्ति व्यवहरन्तीति । अव्यपेतपदार्थं व्याचष्टे—तदेतत्सर्वमिति ॥

अथ चतुर्षु पादेषु व्यपेतमादियमकं यथा—

‘काञ्चिप्रतोलीमनु कामिनीं तां काञ्चिस्रवन्तीवनमातरिश्वा ।
काञ्चिप्रभृत्याभरणोज्झितानां कांचिल्लुनीते सुरतश्रमार्तिम् ॥ १०८ ॥’

क्रमप्राप्तं व्यपेतमुदाहर्तव्यमित्याह—अथेति । काञ्चिर्नगरी तस्याः प्रतोली राजरथ्या तामनु लक्षीकृत्य । केन पानीयेनाञ्चनशीला या स्रवन्ती नदी तद्वनमातरिश्वा वायुः । काञ्चिप्रभृतीनि मेखलाप्रमुखानि । कांचित्सर्वाङ्गीणालसभावसमर्पिकामत एव मेखलाप्रभृतिभूषणत्यागः । अत्र प्रतिपादं काञ्चीकाञ्चीत्यादि नैरन्तर्येणावर्तनेन व्यपेतम्, सान्तरत्वेन पुनरादिमध्ययमकमेव स्यादिति पादभेदेनैवास्य संभवः ॥

तदेव मध्ययमकं यथा—

‘मदनदारुण उत्थित उच्छिखो मधुमदारुणहूणमुखच्छविः ।
तरुणिदारुण एष दिशः समं मम हृदारुणदाम्रवणानलः ॥ १०९ ॥’