216

पादसंधौ स्थूलव्यपेतं यथा—

‘हठपीतमहाराष्ट्रीदशनच्छदपाटला ।
पाटलाकलिकानेकैरेकैका लिलिहेऽलिभिः ॥ १३६ ॥’

अत्रापि प्राग्वदेव यतिविच्छेदात्पूर्वोत्तरार्धयोरसंहितायां पाटला पाटलेत्यावृत्तेर्नाव्यपेतयमकत्वम् । न चैतत्पादयोरादावन्ते वा शक्यते वक्तुम् । अपि त्वेकस्यादावन्यस्य वान्त्यस्थाने यमकमिदं स्थूलावृत्तेः स्थूलव्यपेतमुच्यते । न चैतद्वाच्यमुपोढरागेत्यादौ काञ्चीयमकेऽप्ययं न्याय इति । तस्यैव तथाभूतलक्षणत्वात् ॥

हठेति । हठपानेन ताम्बूलरागो निःशेषितस्तेन प्राप्तपरभागसहजरागोन्मेषः । व्यवधायकशब्दाभावे कथमिदं व्यपेतमित्यत आह—अत्रापि प्राग्वदिति । ननूपोढरागेत्यादौ पूर्वोदाहृतेऽपि यतिविच्छेदादस्ति व्यवधानात्कोऽस्य विशेष इत्याशङ्क्याह—न चेति ।

काञ्चीयमक एवाव्यपेतास्थानयमकभेदे सूक्ष्मव्यपेतं यथा—

‘धराधराकारधरा धराभुजां भुजा महीं पातुमहीनविक्रमाः ।
क्रमात्सहन्ते सहसा हतारयो रयोद्धुरा यानधुरावलम्बिनः ॥ १३७ ॥’

अत्रान्त्यपादे धुरा धुरेति सूक्ष्मव्यपेतं वर्तते ।

धराधरः शेषो महीं पातुं सहत इत्यन्वयः ॥

स्वभेदान्यभेदयोः स्थूलं सूक्ष्मं च यथा—

‘सालं वहन्ती सुरतापनीयं सालं तडिद्भासुरतापनीयम् ।
रक्षोभरक्षोभरसत्रिकूटा लङ्काकलङ्काकलिकाद्रिकूटा ॥ १३८ ॥’

अत्र सालं सालमिति स्वभेदे सुरतापनीयं सुरतापनीयमिति स्थूलः । रक्षोभरक्षोभ लङ्काकलङ्केति अन्यभेदे कूटा कूटेति सूक्ष्मव्यपेते भेदो वर्तते । तदिदमस्थानयमकं स्थूलसूक्ष्ममुच्यते ॥

सालमिति । सालः प्राकारः । सुराणां तापनं संतापजननं तस्मै हितमल-