ननु ‘वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम्’ इति कैश्चित्परिसंख्यातम्, ततश्चाष्टधा श्लेषो भविष्यतीत्यत आह—लिङ्गश्लेषोऽपीति । तदिदमुदाहरणीयमित्याह—स यथेति । दर्शयत इत्यात्मनेपदेन तटस्थमपि कं न हठाद्दर्शनाय प्रेरयतीति व्यज्यते । अधरीकृता जिताधरत्वमापादिता च । ननु च कुवलयदलद्युतेति अधरीकृतप्रवालश्रियेति च प्रकृतिभागो न भिद्यते, तत्कथमयं प्रकृतिश्लेष इति । नैतत् । आविष्टलिङ्गद्वयविशेष्यलिङ्गद्वयसंनिधानादनाविष्टलिङ्गं विशेषणमवश्यमुभयलिङ्गग्राहि वाच्यम् । पञ्चकप्रातिपदिकार्थपक्षे विभक्तिर्द्योतिकैव तथा च लिङ्गभेद इति विभिन्ने विशेषणप्रकृती मिथःसंश्लिष्टे इति । अत्रेत्यादि ॥