ततः प्रभृतीति । तापोद्रेकाद्दत्तं दत्तमेव चन्दनमाश्यानभावेन रेणुभिरलकच्छटासु विशीर्यत इति द्वितीयकामावेशो ध्वनितः । अत्र तकारनकारौ दकारनकारावित्यादिना क्रमेण श्लोकसमाप्तिं यावद्बहवो दन्त्याः । तेनैकश्रुतिव्याप्तस्य संदर्भस्य मसृणतायामतिशयः । शिलातलेति रूपसाजात्येन लकारावुद्भूतश्रुतिकौ । न चाधिकावृत्तिरत्रास्तीत्यनुत्कटता । न च श्रुतेरुद्भवेऽपि मसृणता न प्रकृष्यत इति वर्णानुत्कटोऽयम् । ग्राम्यत्वं व्याचष्टे—तेऽमी चत्वारोऽपीति । श्रुतिसाजात्यस्य शब्दानुशासनेऽपि प्रसिद्धेरतिप्रसिद्धत्वम् ॥