232

तत्र भेदेऽप्येकत्वबुध्द्या समानस्थानयोर्यथा—

‘हरेर्लङ्घितघर्मांशुर्व्योम्नि दीर्घेण रंहसा ।
बलिबन्धनघोरोऽङ्घ्रिरंहःसङ्घं निहन्तु वः ॥ १७० ॥’

अत्र हकारस्य तुल्यस्यातुल्यस्थानेन घकारेण सह भेदेऽप्येकत्वबुद्धेस्तुल्यश्रुतित्वमिति भेदेऽप्येकत्वबुध्द्या नागरानुप्रासोऽयम् ॥

ग्राम्यवैपरीत्येनेति । ग्राम्यविरुद्धस्वभावो हि लोके नागर इत्युच्यते । अतिप्रसिद्धेरभावो विरोधस्तेनालंकारसमयोपजीविपञ्चषप्रसिद्धिरनतिप्रसिद्धिरित्युक्तं भवति । एतदेव पूर्वाचार्यमतेन विशदयति—यथोच्यत इति । एकश्रुतिकतया भानं हि श्रुतिसाजात्यमभिमतम् । श्रुतिश्च वास्तवी प्रतिपादनमात्रारूढा वेति न कश्चिद्विशेषः । ततो भेदेऽप्येकत्वबुध्द्यानुप्राससिद्धिः । तत्त्वे एकत्वे । आपाततः साजात्यानवभासेऽपि सहृदयप्रणिधानेनावभासनं श्रुत्यनुप्रासप्रयोजकमेव । अनुप्रासस्य । अनुप्रासवतः संदर्भस्येत्यर्थः । विजातीययोरेकजात्यप्रतिबिम्बनं द्विधा भवति स्थानसाम्ये तदसाम्ये च । तयोराद्यमुदाहरति—तत्रेति । दीर्घेण रंहसेति, घोरोऽङ्घ्रिरिति, रंहःसङ्घमिति, घकारहकाराणां स्थानसाम्येऽपि वैजात्यमस्त्येव । तथा पठितौ तुल्यवच्छ्रुतिः प्रतिभातीति सहृदयहृदयसाक्षिकोऽयमर्थः ॥

तथैवासमानस्थानयोर्यथा—

‘उच्छलन्मत्स्यपुच्छाग्रदण्डपाताहताम्भसि ।
जगदुद्यानमम्भोधावुन्ममज्ज ममज्ज च ॥ १७१ ॥’

अत्रोच्छलन्मत्स्यपुच्छाग्रेत्यत्र त्स्यच्छकारयोरिव त्स्यकारस्यापि तुल्यश्रुतित्वमित्यसमानस्थानत्वेन भेदेऽप्येकत्वबुध्द्या नागरानुप्रासोऽयम् ॥

अत्र त्स्यच्छकारयोरिति । चछौ तालव्यौ, तसौ दन्त्याविति स्थानभेदः प्रकाश एव । तथापि पिण्डीभूताभ्यां च स्तम्बीभूतमध्यपतितौ तसौ समानश्रुतिकाविति पठितौ सौभाग्यमर्पयतः । तेनायमसमानस्थानयोरेकत्वबुध्द्या नागरानुप्रास इति ॥

तत्त्वेऽप्येकनिह्नवेन डकारवकारयकाराणां यथा—

‘क्रोडे मा डिम्भमादाय चण्डि पीडय वक्षसा ।
कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते ॥ १७२ ॥’