246 द्विगुणो राग इति उपमाने मत्तपदपोषः पूर्वार्धे द्वयोर्द्वयोरूत्तरार्धे त्रयाणामनुल्लङ्घितक्रमाणामेव व्यञ्जनानामावृत्तिरिति स्फुटं विवरणम् ॥

क्रमवतां विपर्ययोपन्यासाद्विपर्ययो यथा—

‘प्रणवः प्रवणे यत्र प्रथमः प्रमथेषु यः ।
रणवान्वारणमुखः स वः पातु विनायकः ॥ २०८ ॥’

अत्र व्युत्क्रमो व्यक्त एव । सोऽयं वर्णानुप्रासो विपर्यय इत्युच्यते ॥

क्रमवतामुपक्रान्तकिंचित्क्रमाणामावृत्तौ तत्क्रमविपर्यासो व्युत्क्रमः ॥

स्वाद्यवर्णवर्तिना स्वरेण सह पादमध्यान्तयोरनुप्रासः संपुटं यथा—

‘स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महारोगाभोगः कुवलयदृशः सर्पसदृशः ।
गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला यमः स्वैरी वैरी तदपि न हितं कर्म विहितम् ॥ २०९ ॥’

तदेतल्लक्षणेनैव व्याख्यातम् । सोऽयं वर्णानुप्रासः संपुट इत्युच्यते ॥

स्वाद्येति । आवर्तनीयो वर्णः स्वपदेनाभिमतस्तस्य पूर्वो यो वर्णस्तद्वर्तिना स्वरेण सह तस्यावृत्तिः । पादमध्यान्तयोरिति । मध्यसंश्लिष्टोपरितनभागघटितसमुद्गकतुल्यतया संपुटोऽनुप्रासः ॥

अन्तपादमुपसंहारोपक्रमयोर्विवक्षितः सस्वरानुप्रासो मिथुनं यथा—

‘त्यज मनसि सदाहे हे स्मर स्थानमस्मि- न्ननु किरसि शरीरे रे किमिन्दो मयूखान् ।
अपि परिहर वायो योगमङ्गैर्मदीयैः प्रणयिनि समवेते ते भवन्तः सखायः ॥ २१० ॥’

तदेतन्निगदेनैव व्याख्यातम् । सोऽयं वर्णानुप्रासो मिथुनमित्युच्यते ॥

अन्तपादमिति । वृत्तौचितीवशाच्च द्विखण्डलब्धशोभाविशेषेषु पादेषु मिथुनसिद्धिरवसेया । तदिदमुक्तमुपक्रमोपसंहारयोरिति । मिथुनं द्वन्द्वम् ॥